________________
२१४
हीरसौभाग्यम् [सर्ग ११ श्लो० ११०-१११
यिका नाम्नी देवता नक्त रात्रौ । कलौ प्रायो देवतानां नक्तमेवागमस्य दृश्यमानत्वात् श्रूयमाणत्वाच्च निशि । नीरन्ध्रच्छिद्रेर्वधरहितैः । रक्षितरित्यर्थः। मुक्ताफलैमौक्तिकै तिपति श्रीहीरविजयसूरिमवाकिरद्वर्षयामास । 'अवाकिरन्वयोवृद्धास्त लाजैः पौरयोषितः' इति रघुवंशे । तत्र वयमेव विद्मो जानीमः । उत्कण्ठता उत्कण्ठिाकलिता उत्सुकीभूता सती स्वताराणां स्वशरणीभूतानामात्मपरिवारीभूतानां तारकाणां तारकाभिधसेवकानां ज्योतिषां चोत्करैः समूहैः सार्ध राज्ञः कस्यचिन्नृपस्य चन्द्रस्य वा प्रियतमा राज्ञी रात्रिर्वा वन्दितुं नमस्कर्तुमागता समेतेव । किं कृत्वा । तीर्थकरं श्रीमज्जिनराजमनुकरोति युगप्रधानादिमहिना. सदृशीभवति इत्येवंशील' भगवतः सूरीन्द्रस्य माहात्म्य महिमानं श्रुत्वा समाकर्ण्य ॥
શ્લેકાર્થ
તે વટદલ નગરમાં જિનશાસનની અધિષ્ઠાયિકા સિદ્ધાયિકા દેવીએ રાત્રિ સમયે હીરવિજયસૂરિ ઉપર છિદ્ર વિનાનાં (વેધ કર્યા વિનાનાં) મતીઓની વૃષ્ટિ કરી, (પ્રાય: કલિકાલમાં દેવદેવીઓનું આગમન રાત્રિમાં જ જણાય છે.) તે જાણે યુગપ્રધાનતા આદિ મહિમાવડે શ્રીતીર્થકર ભગવંતની સમાનતા ધારણ કરનારા આચાર્યદેવના મહાભ્યને સાંભળીને ઉત્કંઠિત બનેલી ચન્દ્રપ્રિયા રાત્રિ, પિતાના સેવકરૂપ તારાઓના સમૂહ સહિત વંદન કરવા માટે આવી ન હોય ? ૧૧૦
तत्रानन्ध जनान्दिनानि कतिचिद्वाचंयमाधीशिता वातिक्रमितुं क्रमात्प्रववृते भूमेः समं साधुभिः । वाचा चन्द्रिकया तमः प्रशमयन्नेत्रांश्चकोरान्पृणंस्ताराणां निवहैविहायस इव श्यामाङ्गनानायकः ॥ १११॥
वाचंयमाधीशिता मुनिनायकः क्रमादनुक्रमेण साधुभिः स्वकपारिपार्श्वकश्रमणैः समं सार्ध भूमेर्धरित्र्या वर्त्म पन्थानमतिक्रमितुमुल्लङ्घयितुं प्रववृते प्रचक्रमे प्रवृत्तः । किं कृत्वा । तत्र वटदलाप्रामे कतिचित्कियन्ति दिनानि वासरान यावज्जनात् भविकलोकानानन्ध प्रहाच प्रमोदमेदुरान्विधाय । सरिः किं कुर्वन् । वाचा स्ववचनविलासेन कृत्वा तमोऽज्ञानं पाप वा प्रशमयन्निष्ठापयन् शान्ति नयन वा । च पुनर्नेत्रान्नयनानि । नेत्रशब्दः पुक्लीबलिङ्गयोः । पृणन् संप्रीतिमुत्पादयन् । क इव । श्यामाङ्गनानायक इव । यथा चन्द्रस्ताराणां ज्योतिषां निबहैव्रजः सह विहायस आकाशस्य वाध्वानमति