________________
२१६
हीरसौभाग्यम् [सर्ग ११ श्लो० १०६-१०८
इत्यर्थः । स्वर्णमयीं काञ्चनरचितां वेर्णी स्त्रीशिरोरुहाभरणं संयतानां केशानामुपरि धीयते । केशाः संयतास्तन्मध्ये क्षिप्यते वा सा स्वर्णमयी प्रलम्बा गजशुण्डाकारा वेणीत्युच्यते । स्वर्णवेणीति शिरोरुहभूषणमधुना दक्षिणस्यां श्रूयते दृश्यते च । महीं किं क्रियमाणाम् । अम्भोराशिना समुद्रेण स्वाङ्क निजोत्सङ्गमवाप्यमानाम् । केन कामिव । घर..भेन मत्तेभयानामिव । यथा स्वकान्तेन मदोधुरसिन्धुरगमना स्वप्राणप्रिया स्वकी. यक्रोडं प्राप्यते । किं कृत्वा । द्वे वेले वारौ यत्र तद्विवेल लीलया स्वभावेन नोपाधितः विश्वस्वाभाव्यतः प्रकर्षण विसरणशीलयोर्विस्तारिण्योर्वेलयोरम्भोवृद्धयोः पयसी सलिले एव भुजे बाहू ताभ्यां कृत्वा भूम्ना बाहुल्येन परिरभ्य वपुषोरेकीकरणेन गाढमालिङ्गय ॥
લોકર્થ પિતાના પતિવડે ગાઢ આલિંગન કરાયેલી કઈ ગજગામિની સ્ત્રી જેમ પતિના ઉત્સગને પ્રાપ્ત કરે, તેમ સ્વાભાવિક રીતે જ બે વખતની ઓટ-ભરતીરૂપ (જલવૃદ્ધિરૂપ) બે ભુજાવડે ગાઢ આલિંગન કરાયેલી પિતાના પતિ સમુદ્રના ઉત્સગને પ્રાપ્ત કરેલી અને સુવર્ણ કમલ (પીતવર્ષીય કમલ) ની પીળી પરાગ વડે પીતવણુંયા બનેલી માટી મહી” નામની નદીને આચાર્યદેવે પાર કરી. તે મહીનદી સમુદ્રની મેખલારૂપ લક્ષમીની જાણે સુવર્ણમય વેણી ન હોય ? (તેવી શોભતી હતી. ) . ૧૦૫ ૧૦૬ !
क्वापि स्थपुटितां क्वापि द्रुमद्रोणीसमाकुलाम् । क्वचिद्वहद्वाहिनीकां किराताकलितां क्वचित् ॥ १०७ ॥ द्विपद्वीपिद्विपद्वेष्यमुख्यजन्तूचितां क्वचित् । पदवीं क्षोणिभृत्क्षोणीमिव सरिरलङ्घयत् ॥ १०८ ॥
सूरिः क्षोणिभृतः पर्वतस्य तल्लाटदेशाधिपस्य च क्षोणी गहरोर्वी भूमीमिव पदवीं मार्गमलङ्घयत् अतिक्रामति स्म । किंभूताम् । क्वापि कुत्रापि प्रदेशे स्थपुटत्व' विषमो. नतत्व संजातमस्यामिति स्थपुटिता तथा क्वापि स्थाने दुमाणां द्रोणीभिर्विविधतरुश्रेणीभि; समाकुलां निर्भरभृताम् । द्रोणिशब्दः श्रेणीवाची। यथा चम्पूकथायाम्-'भिल्लीपल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु' इति । 'द्रोणी तु नीवृतिभेदे शैलसंधौ च' इत्यने कार्थः । तथा 'द्रोणिरिदन्तोऽपि समूहार्थवाची च' इति तदवचूर्णिः । तथा क्वचित्कुत्रचिद्देशे वहन्त्यो महीधरकुण्डादिव्यो निःसरन्त्यो वाहिन्या नद्यो यत्र । पुनः क्वचिद्गह्वरादिषु नीरागमननिम्नप्रदेशादिषु वा कोतरा इति प्रसिद्धेषु किरातभिल्लराकलितां संयू. ताम् । पुनः क्वचिदरण्यादौ द्विपा मत्तमतङ्गजा द्वीपिनो व्याघ्रचित्रकाया द्विपद्धेष्याः