________________
२१२
हीरसौभाग्यम्
[सर्ग ११ श्लो० ९८-९९
नृत्यतः ताण्डवमाडम्बरयन्तः । किं कृत्वा । क्षणं निमेषमात्रं सान्द्रान सच्छायान सस्नेहान्वा सालान्द्रुमान्वृक्षानिरीक्ष्य दृष्ट्वा । किंभूतान सालान् । ध्वनन्तो मञ्जुगुञ्जारवं कुर्वन्तः शब्दायमाना भृङ्गा भ्रमरा येषु । पुनः किंभूतान् । निर्यन्तोऽविरलं निर्गलन्तो निःसरन्तो रसा मकरन्दा येभ्यस्तान् । कानिव । अब्दानिव । यथा सहशब्दैर्गरिवैर्वतन्ते ये ते तथा । पतन्त्यो निरन्तरं निर्यान्त्यो वारिणां जलानां धारा रेखाकारा दृष्टयो येभ्यस्तादृशान् । मेधानालोक्य मयूरा नृत्यन्ति ॥
શ્લેકાર્થ
ગજના સાથે જલવૃષ્ટિ કરતા મેઘને જોઈને, તેમ જ જેમાંથી નીરંતર કરી રહેલા મકરંદમાં લુપી બનેલા ભ્રમરેવાળા સાલવૃક્ષને ક્ષણમાત્ર જોઈને કેકારવ સાથે નૃત્ય કરતા મયૂરોને આચાર્યદેવે દક્ષિણ દિશામાં જોયાં, દક્ષિણ બાજુ રહેલા કેટલાક શુકુન સિદ્ધિપ્રદ હોય છે. કહ્યું છે કે “જંબુ, વાસ, મયૂર, ભારદ્વાજ પક્ષી, નકુલ વિગેરેનું દક્ષિણ ભાગમાં દર્શન માત્ર પ્રશસ્ત છે, સર્વ સંપત્તિ પ્રાપ્ત કરાવનાર છે. : ૯૮ છે
अवामेव यामाप्यमुष्यानुकूलं चुकूज द्रुमे भक्ष्यमादाय देवी । त्रिलोकीमिवाकारयन्सेवनायै विभोर्दक्षिणीभूय चाषोऽप्युवाच ॥ ९९ ॥
देवी कृष्णवटिकापोतकी नामा । यदुक्तं सुरथोत्सवकाव्ये-'पोतकीदयितपिच्छसच्छवि;' इति । लोके तु देवीति प्रसिद्धा । निष्कण्टकहरितरौ स्थिता उपविष्टा सती वामापि सव्यभागवर्तिन्यपि अथ च वामाप्रतिकूलाप्युच्यते । परं नात्र परमार्थतः । अवामेय दक्षिणेव अनुकूलेव वेत्यर्थः । अमुष्य सरेरनुकूलमायतौ हितसूचकं चुकूज बभाषे । वर्धमानस्वरान् कृतवती । किं कृत्वा । भक्ष्यसमूहं 'चूणि' इति प्रसिद्धमादाय गृहीत्वा भक्षयित्वा । अपि पुनः चाषः किकीदिविः नीलपक्षिविशेषः । लोके 'नीलवास' इति प्रसिद्धः । दक्षिणीभूयापसव्यभागवर्ती भृत्वा तोरणं बद्धा प्रदक्षिणीकृत्य वा उवाच ब्रूते स्म । उत्प्रेक्ष्यते-विभोः सूरीश्वरस्य सेवनायै सेवाकरणार्थ त्रिलोकी विश्वत्रयीमाकारयन्निव ।।
શ્લોકાઈ
દેવચકલી આચાર્યદેવની ડાબી બાજુએ હેવા છતાં પણ દક્ષિણભાગની જેમ પિતાનું ભઠ્ય લઈને વૃક્ષ પર બેઠેલી અકૂનુલ શબ્દ કરતી હતી, આચાર્યને હિતકારી બેલતી