________________
सर्ग ११ श्लो० ९६-९८]
हीरसौभाग्यम्
दृश्यन्ते । भेरी प्रसिद्धा मदनभेर्यपि । दुन्दुभिनिःस्वाना राजवाद्यमानकः पटहः 'ढोल' इति प्रसिद्धः ॥
કાર્થ હીરગુરૂદેવે પિતાની સમક્ષ નિર્ધમ અગ્નિ જે ! તે જાણે આચાર્યશ્રી પ્રતાપ વડે પરાભવ પામેલે અગ્નિ, તેઓશ્રીની પ્રસન્નતા પ્રાપ્ત કરવા માટે સામે આવ્યું ન હેય ! વળી, આચાર્યદેવે ગર્જના કરતા ગજેન્દ્રને સન્મુખ જે તે જાણે આચાર્યશ્રીના પ્રયાણમાં મહાધ્વનિ કરતી દુંદુભિ ન હોય કે ૯૬ છે
त्वयारोपि केतुः कुले योगभाजामितीवालपन्तं क्वणैः किंकिणीनाम् । स्वमूर्धा विहायः स्पृशन्तं स केतुं मुमुक्षुक्षितीशोऽक्षिलक्षीचकार ॥९७ ॥
स मुमुक्षुक्षितीशः । निजाग्रे इति ज्ञेयम् । केतु ध्वजमक्षिलक्षीचकार लोचनगोचरीकुरुते स्म पश्यति स्म । किं कुर्वन्तं केतुम् । स्वमूर्ना निजमस्तकेन कृत्वा विहाय व्योमाङ्गणं स्पृशन्तं संघट्टयन्तम् । अम्बरचुम्बितमित्यर्थः । उत्प्रेक्ष्यते-किंकिणीनां क्षुद्वघण्टिकानां क्वणैः रणच्झणितिशब्दैः इत्यालपन्तं गुरु प्रति कथयन्तमिव । इति किम् । हे प्रभो, त्वया योगभाजां योगीन्द्राणां कुले वंशे केतुः पताका ध्वज आरोपितः ॥
શ્લેકાર્થ
તે મુનિ પતિએ પિતાની આગળ મસ્તક વડે આકાશને સ્પર્શતી ગગનચુંબી ધ્વજા જોઈ. તે જાણે પિતાની ઘુઘરીઓનાં રણઝણ શબ્દ વડે આચાર્યશ્રીને આ પ્રમાણે કહેતી ન હોય કે “હે પ્રભે, ખરેખર આપે ગીન્દ્રોના કુલમાં વિજ ચઢાવ્યો'. ૯૭
सशब्दानिवाब्दान्पतद्वारिधारान्ध्वनङ्गनिर्यद्रसान्सान्द्रसालान् । निरीक्ष्य क्षण नृत्यतः क्लुप्तकेकारवान्केकिनो दक्षिणानक्षतासौ ॥ ९८ ॥
असौ सूरिदक्षिणान्दक्षिणदिग्विभागवर्तिनः अनुकूलान्वा केकिनो मयूरानैक्षत आलो. कते स्म । कतिचन शकुना दक्षिणविभागस्थिता सिद्धिविधातारो भवन्ति । यदुक्तम्'जम्बूवासमयूरो भारद्वाहेतहेवनउलेअम् । दंसणमेव पसत्थं पयाहिणे सव्वसंपत्ती ॥' इति । किंभूतान्केकिनः । क्लुप्तो विरचितः कृतः केकारवो यैस्ते । केकिनां वा केका शुक्लापाङ्गोऽस्य वा केका । अत एघ केका विद्यते येषां ते केकिनः तान् । पुनः किं कुर्वतः ।