________________
सर्ग ११ श्लो० ९३-९४ ]
हीरसौभाग्यम्
२०९
विधास्यामि सांनिध्यमभ्यासमेवानिशं तस्थुषी ते किमेतद्विवक्षुः । असो शासनस्वम गाक्षी समेता पुरः सौरभेयी बभूव व्रतीन्दोः ॥ ९३ ॥
व्रतीन्दोहीरसूरेः पुरोऽग्रे सौरभेयी सवत्सा गौर्बभूव संमुख समेता । उत्प्रेक्ष्यतेअसौ प्रत्यक्षा शासनस्वर्मंगाक्षी सिद्धायिकानाम्नी श्रीमन्महावीरजिनशासनदेवतेव समेता समागता किमु । किं कर्तुमिच्छुः । एतदत्रैव काव्ये प्रोच्यमानं विवक्षुर्वक्तुमिच्छुः कथयितुकामा । किं तदेवाह-हे सूरे, अहं शासनसुरी अभ्याहे श्रीमत्समीपे एव तस्थुषी स्थितवती सती अनिशं निरन्तरमहोरात्रमेव ते तव महावीरपट्टधारिणः सूरेः सांनिध्यं सत्यवसरे श्रीमत्समीहितकार्य विधास्यामि करिष्यामि । दुष्करमपि भवदीप्सितार्थ साधयिष्यामीति ॥
શ્લેકાર્થ
હીરવિજયસૂરિની સમક્ષ વાછડા સહિત ગાય આવી તે જાણે આચાર્યને કંઈ કહેવાની ઈચ્છાવાળી, વીરશાસનની અધિષ્ઠાયિકા મૃગનયના સિદ્ધાયિકા નામની દેવી સાક્ષાત્ ન આવી હાય ! “હે આચાર્ય, શાસનદેવી એવી હું આપની સમીપ રહીને, નિરંતર આપના અભિલષિત કાર્યને કરતી રહીશ અર્થાત આપનું અભિલષિત દુષ્કર પણ કાર્ય સાધી આપીશ. ૩
प्रशान्तै रसैः पूरितः पूर्णकामो भवांस्तूर्णमेवास्तु मद्वन्मुनीन्दो । सकान्तोत्तमाङ्गे स्थितः पूर्णकुम्भः पुरोऽभूदितीब प्रभोक्तुकामः ॥ ९४ ॥
सह कान्तेन भर्चा विद्यते या सा तस्याः सकान्तायाः सधवायाः स्त्रिय उत्तमाङ्गे मस्तके स्थितः पूर्णकुम्भो जलभरमृतकलशः प्रभोः सूरेः पुरोऽग्रे अभूत्संजातः । अभिमुखः समाजग्मिवानित्यर्थः । उत्प्रेक्ष्यते-प्रभो_रविजयसूरेरित्यमुना प्रकारेण वक्तकामः कथयितुमना इव । इति किम् । हे मुनीन्दो, भवान्मवदहमिव प्रशान्तः प्रकर्षण शान्तनामभिरुपशमलक्षणै रसैः सर्वेभ्योऽपि रसेभ्यः प्रशस्यत्वान्महानन्ददायित्वाच्च बहुत्वम् । पूरितः परिपूर्णीभूतः भृतः सन् तूर्ण शीघ्रमेव पूर्णाः सिद्धा निष्पन्नाः कामा अभिलाषा यस्य तादृशोऽस्तु भवतात । यथाहं रसै सलिलैः पूरित आकण्ठपीठं पूर्णः भृतमध्यः संजातोऽत एव पूणा जलादानलक्षणः कामों मनोरथो यस्य ॥
हि, सौ. २७