________________
२०८
हीरसौभाग्यम् [ सर्ग ११ श्लो० ९१-९२
ततोऽन्यैः समं साधुभिः सूरिसिंहः समुद्दिश्य पूर्वां दिशं स प्रतस्थे । जिगीषुः समग्रान्दिगन्तानने कैरिवाखण्ड लोऽम्भोधिने मेरनीकैः ॥ ९१ ॥
श्राद्धप्रशंसानन्तरं स हीरविजयनामा सूरिषु निर्भयत्वात्साहसिकत्वाच्च सिंह इव सिंहः पञ्चाननः अन्यैः स्वपारिपार्श्वक भूतैरपरैः साधुभिः श्रमणैः समं सार्धं पूर्वी प्राचीं दिशमुद्दिश्य मनसि कृत्वा प्रतस्थे प्रस्थानं कृतवान् । क इव । आखण्डल इव । यथा समग्रान्दिगन्तान्दिग्विभागान् । दिशावसानभूमीर्यावदित्यर्थः । जिगीषुः स्वीचिकीर्षुः अम्भोधिनेमेः पृथिव्याः आखण्डलः पुरहूतो भ्रमान अनेकैर्गजाश्वरथपत्तिप्रकरपरिकलितानीकैः कटकैः साकं प्राचीं हरितमुद्दिश्य प्रतिष्ठते ॥
શ્લેાકા
ત્યાર પછી, ચારે દિશાઓના છેડે રહેલી સમગ્ર સેનાની સાથે દિવિજય કરવા માટે જેમ ચક્રવતી રાજા પૂર્વૈદિશા તરફ પ્રયાણ કરે તેમ અનેક સાધુએની સાથે સૂરિસિંહ હીરવિજયસૂરિએ પૂર્દેિશાને મનમાં ધારણ કરીને પ્રયાણ કર્યું ! ૯૧ ૫
अलंकारमालां दधानां वसाना दुकूलानि पुष्पाणि पाणौ प्रणीय । aat प्रागभूत्संमुखीना मुनीन्दोः पुरः प्रादुरासेव मूर्ती जयश्रीः ॥ ९२ ॥
मुनीन्दोः सूरेः प्रस्थानावसरे प्राक् पूर्व कनी कन्या कुमारिका संमुखीना अभिमुखा अभवत् । संमुखमाजगामेत्यर्थः । किं कृत्वा । पुष्पाणि विकसितकुसुमानि पाणी स्वहस्ते प्रणीय कृत्वा । आदायेत्त्यर्थः । किं कुर्वाणा अलंकारमालामाभरणश्रेणीमल कारान मणिसुबर्णभूषणानि कुसुममालिकां च वा दधाना विभ्राणा परिधरन्ती वा । पुनः किं कुर्वाणा । दुकूलानि क्षौमाणि पट्टकूलप्रमुखदिव्यवसनानि वासना वस्ते स्मेति परिदधाना । उत्प्रेक्ष्यते - मुनीन्दोः सूरेः पुरोऽग्रे मूर्तिमती सशरीरा जयश्रीजयलक्ष्मीः प्रादुरा सेव प्रकटीभूतेव ॥
શ્લાકા
મુનિચન્દ્ર આચાર્ય શ્રીના પ્રયાણ સમયે, સુવર્ણ રત્નાનાં આભૂષણા તેમજ પુષ્પોની માલાએ ધારણ કરીને અને રેશમી વસ્રોનું પરિધાન કરેલી કુમારિકાએ હાથમાં પુષ્પ લઈને આચાર્યશ્રીની સન્મુખ આવી તે જાણે આચાય દેવની સમક્ષ સ્મૃતિ મતી જયલક્ષ્મી પ્રગટ ન થઈ હાય ? ! ૯૨ ૫