________________
[सर्ग ९ श्लो० ० २७-२९
हीरसौभाग्यम्
११
हे देव, गणधारिणां गच्छभारसासहीनां सूरीणां सध्ये धुयेण धौरेयेण। गणधरधुरधरणेत्यर्थः। त्वया भगवता पुनद्वितीयवार स्वल्पे स्तोकेऽपि कार्ये कर्तव्ये किंकरी चेटी दासीव अहं श्रीमञ्चरणसेविका अमरी शासनदेवता प्रसादस्य प्रसत्ते; पात्रीकर्तव्या स्थानक कार्या । स्मर्तव्येत्यर्थः ॥
લેકાર્થ હે દેવ ! મુનિગણનેતા એવા આપ, અલ્પ પણ કાર્યમાં કિકરી એવી મને આપની કૃપાપાત્રી બનાવશે. અર્થાત્ મને ભૂલશે નહી. રહા
इत्युदित्वा प्रभु नत्वा मोदमेदस्विनी ततः ।
क्षणिकेव क्षणादासीददृश्या घोतिताम्बरा ॥ २८ ॥ . देवी शासनसुरी क्षणाक्षणमात्रान्निमेषमात्रात् क्षणिकेव विद्युदिवादृश्या दृशोरगोचरा आसीत् । गतेत्यर्थः। किंभूता ।द्योतित स्वकान्त्या प्रकाशितमुद्द्योतयुक्त कृतमम्बरमाकाश यया । पुन; किंभूता । मादेन सरिदर्शनोभृताद्वैतानन्देन कृत्वा मेदस्विनी रोमाञ्चकञ्चुकितकाययष्टित्वात्पुष्टा । हर्ष प्रकर्षवतीर्थः किं कृत्वा । पूर्वातप्रकारेण उदित्वा कथयित्वा प्रभोः पुर इत्यध्याहारः । पुनरित्यस्वाप्यध्याहारः प्रभुं । सूरीन्द्रं नत्वा प्रणम्य ॥ इति शासनदेवतागमनम् ॥
પ્લેકાર્થ જેની કાંતિથી આકાશ પ્રકાશિત થયું છે, તેવી અને આચાર્યનાં દર્શનામૃતથી પુષ્ટ બનેલી શાસનદેવી આ પ્રમાણે કહીને વિજળીની જેમ ક્ષણમાત્રમાં અદશ્ય થઈ ગઈ ૨૮
कलधौतावदातश्रीईिजज्योत्स्नाविराजितः । कुर्वन्कुवलयोल्लासं विभुविधुरिवाभवत् ॥२९॥
विभुः श्रीहीरविजयसूरिः विधुः सुधादीधितिरिवाभवत् जातः । किंभूतः । कलधौत काञ्चनं तद्वदवदाता निर्मला पीता श्रीर्वपुः शोभा यस्य । 'विभ्राजते तव वपुः कनकावदातम्' इति भक्तामरस्तोत्रे । चन्द्रः किंभूतः । कलधौतं रजतं तबदुज्ज्वला मण्डललक्ष्मीर्यस्य । 'कलधौतं रूप्यहेम्नोः' इत्यनेकार्थः। पुनः किंभूतः । द्विजानां दशनानां ज्योत्स्नया कान्त्या विराजितः । पक्षे द्विजैश्चन्द्रपारिपार्श्वकैः सेवकविशेषैः । द्विजपतित्वाच्चन्द्रस्य । तथा ज्योत स्त्रया चन्द्रिकया विराजितः शोभित;। पुनः किं कुर्वन् । कुवलयस्य भूमण्डलस्य प्रतिबोधदानादिना यशसा वा उल्लासमानन्दातिशयम् । पक्षे । कुवलयानां चन्द्रविकाशिकमलानामुत्पलानां विकाशं कुर्वन् सृजन ॥