________________
२०६
हीरसौभाग्यम्
[सर्ग ११ श्लो० ८८-८९
जडिम्ना निजां दूषितामङ्गयष्टिं तपोभिस्त्यजन्नू+संस्थानमुख्यैः ।
सुमेरुः किमादत्त सूरीन्द्रदेहं न चेहा प्रतिकाशधैर्यः स कस्मात् ।। ८८ ॥ सुमेरुः सुवर्णाचलः । उत्प्रेक्ष्यते-सूरीन्द्रस्य देह कायं किमादत्त गृहीतवानिव । सूरिशरीरी बभूवेत्यर्थः । किं कुर्वन् । ऊर्ध्वमूर्वीभूय यत्संस्थानं सम्यक समीचीतासमीची नतया वा स्थितिनिष्ठा वा तत्प्रमखैस्तपोभिनिरन्नपानादिकष्टैर्यमनियमविशेषेर्वा कृत्वा जडिम्ना दृषत्तया जाड्येन दूषितां कलङ्कितां निजामात्मीयामङ्गयष्टि वपुलतां त्यजन्नुज्झन् । एवं चेन्न तर्हि स सरिः कस्मात्कारणात् अप्रतीकाशमसाधारणं धैर्य धारिमा यस्य सः । अद्वैतधीरताकलितः कथं भवेत् ॥
શ્લોકાઈ
અતિ ઉન્નતતા (અતિ ઉંચાણ) અને નિરાહારરૂપ તપ આદિ કષ્ટથી પિતાની દુષિત જડતારૂપે શરીર લતાને ત્યાગ કરીને મેરૂપર્વતે જાણે આચાર્યદેવના શરીરને ધારણ કર્યું ન હોય ! જે એમ ન હોય તે આચાર્યદેવમાં અસાધારણ પૈર્યતા કેવી રીતે હેય ? ૮૮
यदुद्यत्सते भूधवस्योपकर्तुं स्वयं मरिकण्ठीरवस्तद्धि साधु । विनैतं कथं सोऽबबुध्येत धीमान्यथा कार्तिकैकादशीमब्धिशायी ॥ ८९ ॥
सूरीकण्ठीरबः हीरविजयसूरिसिंहः स्वयमात्मना यभूधबस्याकब्बरस्योपकर्तुमुपकारं कर्तुमुणत्सते प्रागल्भते उद्यभं प्रयत्नं कुरुते । हि निश्चितम् । तत्साधु सम्यक् । यत्कारणादेत सूरिं विना स धीमान् महाप्राज्ञः कथं केन प्रकारेणावबुध्येत सम्यग्ज्ञानमवाप्नुयात् । क इब । अब्धिशायीव । यथा कार्तिकमासस्थैकादशी शुक्लैकादशी हरिप्रबोधतिथि देवउठणीएकादशी तामन्तरेण कृष्णः कथं जागर्ति । वर्षासमयमनुलक्ष्यीकृत्याब्धौ समुद्रे शेते इत्येवंशीलोऽब्धिशायी ॥
શ્લોકાર્થ
આચાર્યોમાં સિંહ સમાન શ્રીહીરવિજયસૂરિ સ્વયં અકબરબાદશાહ પર ઉપકાર કરવા માટે તૈયાર થયા તે જ ખરેખર સુંદર છે. કેમકે આચાર્ય મહારાજ વિના મહાબુદ્ધિશાળી