________________
सर्ग ११ श्लो० ८७-८७]
हीरसौभाग्यम्
पानं कारयन्त्या गिरा वाण्या । उत्प्रेक्ष्यते-धाराकदम्वा इव । यथा धाराभिर्जलवाहवृष्टिभिराहिताः संसिक्ताः कदम्बा धाराकदम्बाः कोरकिताङ्गाः कुडालकलितशाखा भवन्ति ।
લેકાથી
જેમ મેઘ ધારાથી સિંચાયેલી પૃથ્વી અંકુરિત બને તેમ અનેક પ્રાણીઓને તૃપ્ત કરનારી ગુરૂદેવની વાણીરૂપ સુધાથી જેમનાં શરીર ઉલ્લસિત રોમરાજીવાળાં બન્યાં છે તેવા અકમિપુરના શ્રાવકે હર્ષપૂર્વક આ પ્રમાણે બોલ્યા. ૮૭ છે
“किरन्त्यामृतं तस्य लोकंपृणस्याम्बुवाहस्य वृष्टयेव धाराकदम्बाः । गिरोल्लासिलोमावलीकुङ्मलाङ्गा इदं व्याहरन्ति स्म पौराः प्रमोदात् ।। ८७ ॥
पौरा नागरिकाः प्रमोदादानन्दादिदं वक्ष्यमाणं व्याहरन्ति स्म भाषन्ते स्म । किम् । उल्लसतीत्येवंशीला उल्लासिनी या लोमावली रोमराजी सैव कुङ्मलाः कोरकाः कलिका येषु तादृशान्यङ्गानि काया येषाम् । कया । तस्य सूरेगिरा वाण्या । तस्य किंलक्षणस्य । लोकंपृणस्य त्रैलोक्यलोकस्याहादोत्पादकस्य । गिरा किं कुर्वन्त्या । अमृतं सुधारसं मोक्ष वा किरन्त्या विस्तारयन्त्या पायन्त्या ददत्या च । अमृतपानमिव प्रीति. मुत्पादयन्त्या मुक्तिदायिन्या च । कोरकिताङ्गाः क इव । धाराकदम्बा इव । यथा विश्वसौहित्यविधायिनोऽम्बुवाहस्य मेघस्यामतं घनसलिलं वितन्वन्त्या वष्ट्या वर्षणेन कृत्वा धाराकदम्बाः प्रोल्लसल्लोममालिकातुल्यैः कोरकैः कुसुभकलिकाभिः कान्ताः कायाः शाखाप्रतिशाखारूपा देहा भवन्ति । धाराभिर्जलदजलवृष्टिभिराहताः कदम्बद्रुमाः धाराकदम्बाः । धाराहताः किल कदम्बाः पुष्पन्तीत्यशास्त्रे सिद्धान्तेऽपि च दृश्यते'धाराहयकयम्बसमुच्छसिरोमकूवा' इति । तथा 'स्तोकेनेव वहन्ति पुष्पपुलकं धाराकदम्बद्रुमाः' इति चम्पूकथायाम् । वर्षाकालमधिगत्योज्जृम्भिता नीपाः धाराकदम्वाः । रजसि ये पुष्पन्ति ते धूलीकदम्बाः । वर्षासु ये पुष्पन्ति ते धाराकदम्बाः' इति चम्पूकथाटिप्पनके ॥” इति पाठान्तरम् ॥
લોકાથ ५-तर
જેમ મેઘની વૃષ્ટિથી પૃથ થી નવપલવિત બને તેમ જગતને આનંદદાયક એવા આચાર્ય મહારાજની ત્રણે લેકને આહલાદ કરનારી વાણીરૂપ અમૃતની વર્ષોથી અકમિપુરના શ્રાવકે રોમાંચિત શરીરવાળા થયેલા હર્ષ પૂર્વક આ પ્રમાણે છેલ્યા. છે ૮૭