________________
२०४
हीरसौभाग्यम्
[सर्ग ११ श्लो० ८५-८७ ।
છે) તિથિને આશ્રય આપે, અર્થાત મૌન ધારણ કર્યું. પોતાના મુખરૂપ ચન્દ્રનું તિથિરૂપે કરવાનું તે જાણે સત્યાર્થીનું નિર્માણ કરવા માટે ન હોય ? . ૮૫ છે
प्रभोर्वाक्सुधासारमाकण्ठमेते सकर्णा निपीय स्वकर्णाञ्जलिभ्याम् । सृजन्तो निमेषानपि क्ष्मां स्पृशन्तो दधुः सौमनस्यं तदाश्चर्यमेतत् ॥ ८६ ॥
एते सकर्णाः प्राज्ञाः श्राद्धाः निमेषान्नयननिमीलनान्मीलनानि सृजन्तः कुर्वन्तोऽपि पुनः क्ष्मां क्षोणी स्पृशन्तोऽपि पादाभ्यां भुवं संघट्टयन्तोऽपि यत्सुमनसां भावः सौमनस्यं देवत्वं दधुः धारयन्ति स्म । देवा हि निमेषान्न कुर्वते भूमीमपि न स्पृशन्ति च । एते तु तथा नेति एतन्महदाश्चर्यमतिशायि चरित्रम् । वस्तुतस्तु शोभनप्रसन्नमनस्त्वमिति । किं कृत्वा । प्रभो_रसूरेर्वाक् वाणी सैव सुधा पीयूषं तस्या आसारो वेगवती तृष्टिः । अथ वा सुधाया अमृतादपि सारं वस्तु श्रेष्ठः पदार्थः । तं पीत्वा । कथमाकण्ठं कण्ठपीठं यावत् आस्वाद्य सादरं श्रुत्वा वा ॥
કાર્ય
પ્રાસ શ્રાવકોએ, હીરવિજયસૂરિની વાણીરૂપ શ્રેષ્ઠ, સુધાનું પિતાના કોંરૂપી અંજલિવડે આકંઠ પાન કરીને, નિષેધ–ઉમેષ કરતા તેમજ પગ વડે ભૂમિને સ્પર્શ કરતા હોવા છતાં પણ દેવત્વને ધારણ કર્યું? આ ખરેખર મોટું આશ્ચર્યકારી ચરિત્ર છે, કારણકે દેવ નિમેષ રહિત હોય છે અને ભૂમિને સ્પર્શ કરતા નથી હોતા ! ૮૬
किरन्त्यामृतं प्रीणितानेकजन्तोगिरा तस्य धाराकदम्बा इवामी । समुल्लासिलोमावलीकोरकाङ्गा इदं व्याहरन्ति स्म पौरा: प्रमोदात् ॥ ८७ ॥
अमी अकमिपुरीयाः पौराः श्राद्धाः इदं वक्ष्यमाणं व्याहरन्ति स्म बभाषिरे । किम । समल्लासिनी प्रोल्लसनशीला लोमावली रोमराजी एव कोरकाः कलिका अडे वपुलतायां येषां ते । कया कृत्वा । प्रोणिताः प्रीतिं प्रापिताः अनेके यावज्जातीया जन्तवः प्राणीनो येन तादृशस्य गुरोरमृतं सुधां किरन्त्या विस्तारयन्त्या भव्यानाममत