________________
सर्ग ११ श्लो० ८१-८२ ]
सौभाग्यम्
२०१
निनंसोर्जिनाधीशकल्याणकोर्वीमभूत्पूर्वमेवाशयः पूर्वदेशे ।
विहतु ममान्मताम्भोजभृङ्गा यियासोरिवाशा विजेतुं नृपस्य ॥ ८१ ॥
हे अर्हन्तं श्रीमजिनशासनं तदेवाम्भोजं विजृम्भमाणकमलं तत्र भृङ्गा भ्रमरा जिनशासनैकतानमानसाः हे श्राद्धाः पूर्वदेशे प्राचीमण्डले विहु विहारं विधातुं पूर्व नृपाकारणश्रीमत्कथनेभ्यः प्रागेव ममाशयः परिणामः अभूद्बभूव । मम किं कर्तुमिच्छोः । जिनानां सामान्यकेवलिनामधीशास्तीर्थनायकत्वादर्हन्तश्चतुर्विंशतितीर्थकृतस्तेषां जन्मदीक्षाकेवलज्ञानमोक्षगमनप्रमुख कल्याणकानामुर्वी भूमिं निनंसोर्नन्तुमिच्छोः । कस्येव । नृपस्येव । यथा आशाश्चतस्रोऽपि दिशो विजेतुं स्वायत्तीकर्तुं यियासोर्गन्तुमिच्छोः नृपस्य चक्रिणो विजयिनो मण्डलीकभूपालस्य वा पूर्व पूर्वदेशे विहर्तुं गन्तुमभिप्रायो भवति । विजयी राजा हि पूर्व पूर्वदिशि यातीति स्थितिः ||
1
શ્લેાકાથ
શ્રીજિનશાસનરૂપી કમલને વિષે ભ્રમર સમાન હુ શ્રાવક, દિગ્વિજય કરવા માટે ચક્રવતી' જેમ પૂદિશા તરફ જવા ઇચ્છે તેમ રાજાના આદેશ પહેલાં જ મને શ્રીજિનેશ્વરભગવંતનાં જન્મ, દીક્ષા, કૈવલજ્ઞાન, અને મેાક્ષ ગમનરૂપ કલ્યાણકભૂમિને નમન કરવાની ઈચ્છાથી પૂર્વદિશા તરફ વિહાર કરવાની ભાવના થઈ હતી. ॥ ૮૧૫
समागान्ममाह्वाननं भूमिभानोः पुनर्वप्पभट्टेरिवामस्य राज्ञः । दिनारम्भपन्मोहनिद्राशयालु ततस्तत्र गत्वा तमुद्बोधयामि ॥ ८२ ॥
हे श्रद्धा, पुनर्नमचिकीर्षोरुपरि भूमिभाने र कब्बरसा हेर्ममाह्वाननमाकारणं समागात् सम्यग्रीत्या अनुकूलवृत्त्या न बलहठप्रकृत्या | आह्वाननशब्दोऽपि दृश्यते । यथा चम्पूकथायाम् —' तत्तातस्य कृतादरस्य रभसादाह्वानन' दूरतस्तच्चाङ्के विनिवेश्य बाहुयुगलेनालिय संभाषणम् । ताम्बूलं च तदर्धचर्वितमतिप्रेम्णा मुखेनार्पितं पाषाणोपम हा कृतघ्न हृदय स्मृत्वा न किं दीर्यसे ॥' इति । 'समागान्मह्वानमुर्वीमघोनः इति पाठान्तरं वा । उर्वीमघोनः पृथ्वीपुरंदरस्याकब्बरस्य मम सम्यङ्यानपूर्वक माहानमाकारणमागात् । कस्येव । aभट्टेरिव । यथा बप्पभट्टिसूरेरामस्य गोपालगिरिराजनगर राजित कान्यकुब्जजनपदनायकस्य राज्ञो भृपालस्याकारणं समागात् । 'पितृदत्तराज्येोपविष्टामराजेन स्वप्रधानपुरुषान्प्रेयातिमैध्याद्गुरुपावद्विप्पभट्टिराकारितः' इति तत्प्रबन्धात् ज्ञेयम् । ततः कारणात् तत्र पूर्वदेशे गत्वा तमकन्त्ररपातिसाहिमहमुद्रोधयामि उत्प्राबल्येन सम्यग्ज्ञानशालिन करोमि ।
हि. सौ, २६