________________
हीरसौभाग्यम्
सर्ग ११ श्लो० ७९-८०
आविर्बभूवे प्रकटीभूतम् । यद्यस्मात्कारणादसौ नृपः अन्तश्चित्तमध्ये मदीयागमं ममागमन लिप्सते कामयते वाञ्छति । क इव । पुस्कोकिल इव । यथा पुमान्कोकिलः पुष्पकालं वसन्तसमय समीहते । किंभूतः । विलासी क्रीडालालसः । वसन्ते हि कोकिलानां मदोदयस्ततस्तत्रैव क्लीडासक्तिः ।।
કાથ
અને રાજાની બુદ્ધિ સ્વાભાવિકપણે જ જૈન ધર્મમાં પ્રગટ થઈ, કારણ કે જેમ વિલાસી પુરૂષ કેકિલ વસંતકાલને ઈચ્છે (વસંતઋતુમાં જ નરકેફિલેને મદને ઉદય હેય છે, માટે ત્યારે જ તે કીડા સક્ત હોય છે.) તેમ રાજાના અંતઃકરણમાં મારાં આગમનની સ્પૃહા રાખે છે. . ૭૯ો
अथो जल्पतस्तान्प्रति श्रीव्रतीन्दोः क्षितीन्दोर्दधानस्य निर्देशमन्तः । ध्वनिर्निर्बभौ ढौकितो वाहिनीनां धवेनेव गम्भीरिमश्रीजितेन ॥ ८० ॥
अथो तच्छाद्धकथनानन्तरं तदुक्तिश्रवणादनु मनसि विमर्शानन्तरं वा तान् श्राद्धान्प्रति जल्पतः प्रतिवदतो मुनीन्दो_रगुरोर्ध्वनिः शब्दो निर्बभौ निःशेषतया भाति स्म । 'अक्षबीजवलयेन निर्वभौ' इति रघुवंशे । किं कुर्वाणस्य । व्रतीन्दोः क्षितीन्दोर्मेदिनीचन्द्रस्य पातिसाहेनिर्देशमादेशमन्तः स्वचित्तविषये । 'आज्ञा शिष्टिनिरानिभ्यो दशो नियोगशासने इति हैम्याम् । दधानस्य बिभ्राणस्य । उत्प्रेक्ष्यते-गम्भीरिमश्रिया गाम्भीर्यलक्ष्म्या । 'गम्भीरिमगुरुगुरुम्' इति पाण्डवचरित्रे । जितेनाभिभूतेन वाहिनीनां नदीनाम् । सेनानामित्यप्यर्थः । धवेन भर्ना स्वामिना वा सेनान्या समुद्रेणेव ढौकित उपदाकृत इव ॥
લેકાર્થ
ત્યાર પછી, પૃથ્વીચન્દ્ર એવા રાજાનાં આદેશને પિતાના હૃદયમાં ધારણ કરતા અને શ્રાવકે પ્રત્યે બેલતા એવા મુનિચંદ્રશ્રી હીરવિજયસૂરિને ઇવનિ જાણે, પિતાની ગાંભીર્યલક્ષમીથી પરાભવ પામેલા સરિતાપતિ સમુદ્રદ્વારા ભેરણારૂપે કરાય તે હેય; તે शमत त. ॥ ८ ॥