________________
सर्ग ११ श्लो०७७-७९ ]
हीरसौभाग्यम्
१९९
निक्षिपामि स्थापयामि । क इव । धनीव । यथा धनवान पुमान स्वमात्मीयं निधान सुवर्णरूपकमणिमौक्तिकपूर्णकुम्भमञ्जूषाकटाहादिकं निधिं क्षितौ वसुधाविषये निक्षिपति न्यासीकरोति ॥
શ્લોકાર્થ
જેમ દાવાનલ વનવાસી ને ભસ્મીભૂત કરે છે તેમ અકબરબાદશાહ પણ પૃથ્વી પર કૂર ચિત્તવાળા દંડધારી યમના જેવો છે તે જેમ શ્રીમંત પુરૂષ પિતાના નિધાનને ભૂમિમાં સ્થાપન કરે છે, તેમ હું બાદશાહના અંતઃકરણમાં કરૂણાનું સિંચન ४३ स्थापन ४३. ॥ ७७ ॥
दधानेन धा धुरं किं क्षितीन्द्रः कृतः संमुखीनः स केनापि धर्म । फलाभ्मुद्गमे विश्वलोकं पृणेन प्रसूनव्रजेनेव विस्मेरशाखी ॥ ७८ ॥
धो धर्मसंबन्धिनी धुरं धुर्वी दधानेन बिभ्रता । धर्मधुरंधरेणेत्यर्थः । केनापि सत्तमेन स क्षितीन्द्र; पातिसाहिः धमे जैनधर्मविषये संमुखीनोऽभिमुखः कृतः विहितः । केनेव । प्रसूनव्रजेनेव । यथा विश्वलोकंपृणेन समस्तजगज्जनानन्ददायिना कुसुमप्रकरण विस्मेरशाखी विनिद्रद्रुम- फलानां स्वजातियोग्यानां सस्यानामभ्युद्गमे प्रादुर्भावे संमुखः क्रियते । यतः प्रायः कुसुमेभ्य एव फलान्याविर्भवन्ति । यदुक्तम्-'अहो अमेघजा वृष्टिरहो अकुसुमजं फलम् । अहो पुराकृतं पुण्यं यदृष्टो नाथलोचनैः ।।' इति जिनस्तुतौ ।।
લોકાર્થ
જગદાનંદી પુપોનો સમૂહ જેમ નવપલ્લવિત વૃક્ષને ફલના પ્રાદૂર્ભાવમાં સન્મુખ કરે છે, (અર્થાત્ ફલેનો આવિર્ભાવ પ્રાયઃ પુખેથી જ થાય છે.) તેમ જાણે ધર્મધુરાને ધારણ કરતા આચાર્યદેવે કઈ પણ રીતે પૃથ્વી પતિને જૈનધર્મ સન્મુખ કર્યો ન डाय? ॥ ७८ ॥
किमाविर्बभूवे स्वभावेन धर्मे धिया शांभवे काश्यपीशासितुर्वा । यदन्तर्मदीयागमं लिप्सतेऽसौ विलासीव पुस्कोकिलः पुष्पकालम् ॥ ७९ ॥
अथ वा काश्यपीशासितुर्भूपालस्य धिया बुद्धया स्वभावेन सहजेनैव शांभवे जैने । 'शंभुः स्वयंभूर्भगवान जगत्प्रभुस्तीर्थकरः' इति हैम्याम् । धर्म किमिति वितके प्रश्ने वा ।