SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सर्ग ११ श्लो ० ७०-७२] हीरसौभाग्यम् १९५ પુરૂષેના ચિત્તમાં પિતાના ઉપકારી અને અપકારી તરફ એક સાધારણ તુલા હાથ છે, અર્થાત્ સમાનભાવ હોય છે. જે ૭૦ છે समुत्कण्ठुलं मानसं मेदिनीन्द्रः प्रभौ यब्दिभर्येष सैष्ये करीव । जलस्येव दुग्धेन सङ्ग सिसृक्षोस्त्वया किं पुनर्वाच्यमस्योपकृत्यै ॥ ७१॥ यत्कारणादेषोऽकव्वरनामा मेदिनीन्द्रः पृथिवीपुरंदरः पातिसाहिः प्रभो श्रीमद्विषये समुत्कण्ठुलम् । 'सोत्सुकमुत्कण्ठुलम्' इत्याचारप्रदीपे प्रतिक्रमसूत्रवृत्तौ च । श्रीमद्रत्नशेखरसूरिकृतौ । उत्कण्ठाकलितं मानस मनो बिभर्ति धत्ते । क इव । करीव । यथा गजेन्द्रः स्वमदशोभाविधायिनि सैष्ये शिशिरऋतौ उत्कण्ठितां मनोवृत्तिं दधाति । 'करिणां हि शिशिरतौ मदोदभावो भवेत्' इति वाग्धटकाव्यानुशासने । तत्कारणात् पुनरस्य पातिसाहेरुपकृत्यै उपकृतिकरणाय किं वाच्यं श्रीमतां वक्तव्यं किमस्ति । अस्य किं कर्तु। मिच्छोः । त्वया भगवता समं सङ्ग संयोगं मिलनं सिसृक्षोः स्रष्टुमिच्छोः कर्तु कामस्य । केनेव कस्य । दुग्धेनेव जलस्य । यथा जलं पयसा साकं सङ्ग सिसृक्षति विधातुमिच्छति ।। શ્લેકાર્થ તેથી હે પ્રભો, જેમ ગજેન્દ્ર પિતાના મદની શેભાને કરનાર શિશિરઋતુ પ્રત્યે ઉત્કંઠા ધારણ કરે છે; તેમ અકબરબાદશાહ આપના પ્રત્યે ઉત્કંઠિત ચિત્તવૃત્તિ ધારણ કરે છે. તે માટે હે પ્રભે. જેમ જલ દૂધ સાથે સંગ કરવા ઈચ્છે તેમ આપના સાથે સંગકરવા ઈચ્છતા અકબરબાદશાહ પર ઉપકાર કરવા માટે આપને શું કહેવા યોગ્ય છે ! | ૭૧ છે प्रणिनन्वने व्याधवन्नैकसत्त्वानसत्त्वीकृताशेषविद्वेषिवर्गः । ततो हेमचन्द्रेण चौलुक्यभूमानिवासौ त्वयाकब्बरो वोधनीयः ॥ ७२ ॥ ततः कारणात् सत्तमत्वहेतोः त्वया श्रीमता असौ अकब्बरो नाम मुद्गलपातिसाहिर्बोधनीयः प्रतिबोधं प्रापयितव्यः । केनेव । हेमचन्द्रेणेव । यथा हेमाचार्येण चौलुक्यभूमान् कुमारपालभूपालः प्रतिबोधं लम्भित । असौ किं कुर्वन् । वने कानने उपलक्षणाद्विरिगह्वरारण्यादौ व्याधवल्लुब्धक इव नकान्मानातीतान् सत्त्वान् मृगादिप्राणिनः प्रणिनन् व्यापादयन् । पुनः किंभूतः । असत्त्वीकृताः बलरहिताः कृता धैर्यापगमात् कातरा विहिता वा । 'सत्त्व द्रव्ये गुणे वित्ते व्यवसायस्वभावयोः । पिशादावात्मभावे च बले प्राणेषु
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy