________________
१९४
सौभाग्यम् [ सर्ग ११ श्लो० ६९-७०
महात्माथ वा येन नीयेत तापं प्रयत्येत तेनैव तस्योपकर्तुम् । दहेद्यो निजं चूर्णयित्वा कृशानौ तमेव स्वयं धूपयेत्काकतुण्डः ॥ ६९ ॥
अथ वा इति स्मरणगर्भे पक्षान्तरे वा महात्मा सत्तमः येनानार्येण पुंसा तापं संतापं नयेत प्राप्येत तेनैव महात्मना तस्यैय स्वोपतापकर्तुः पुरुषस्यैव उपकर्तु सम्यग्विधातु प्रथत्येत प्रयत्नः क्रियेत । तदेव दर्शति - यः पुमान् निजमात्मानमगुरुमेव चूर्णयित्वा शकलीकृत्य कृशानौ ज्वलज्ज्वलने दहेद्भस्मीकुर्यात् ज्वालयेद्वा स काकतुण्डः कृष्णागुरुः तमेव स्वदाहकारिणं पुमांसं धूपयेत्सुगन्धी कुर्यात् । तस्य सर्वाङ्गाण्यपि वासयेदेव ||
શ્લેાકાથ
મહાત્માઓને જે સતાપે છે, મહાત્માએ તેએ પર ઉપકાર કરે છે, અર્થાત્ અપકારી પર પણ ઉપકાર કરે છે. જેમ કૃષ્ણાગરૂ ધૂપ પેાતાને ચૂર્ણ કરીને અગ્નિમાં ખાળનાર પુરૂષોને પણ સુવાસિત કરે છે. !! ૬૯.
सतां स्वोपकर्ताकर्ता च चित्तेऽथ वैकां तुलां प्राप्नुतो निर्विशेषम् । विषेन्दू इवानङ्गदस्योः सुधोर्वाविवान्धेः पुनश्चन्द्रिकाङ्गाविवेन्दोः ॥ ७० ॥
अथ वेति पुनः पक्षान्तरे । स्वस्यात्मनः उपकर्ता उपकारकः, च पुनरर्थे स्वस्यापकर्ता विरुद्धकृत, एतौ द्वावपि सतामुत्तमानां चित्ते अन्तःकरणे एकां साधारणीं तुलां सादृश्य प्राप्नुतः । सदृशीभाव लभेते इत्यर्थः । कथम् । निर्गतो विशेषो मानापमानलक्षणो यत्र तन्निर्विशेषम् । क्रियाविशेषणम् । कस्येव । अनङ्गदस्योरिव । यथा शंभोधिषं कण्ठदाहकृत्कालकूटं तथा इन्दुः चूडामणिशोभाकृञ्चन्द्रः । पुनः कस्येन । अब्धेरिव । यथा समुद्रस्य जगज्जीवनौषध सुधा पीयूषं तथा उर्वो निजाखिलसलिलशोषकृद्वडवानलश्च । पुनः कस्येव । इन्दोरिव । यथा चन्द्रिका जगदुद्द्योतविधायिका चन्द्रगोलिका तथा अङ्कः स्वकलङ्कदायक लाञ्छनं च तुल्यां तुलां लभेते निर्विशेषभाव भजतः । इति सतामपकारकारिण्युपकारकरणविज्ञप्तिः ॥
શ્લેાકા
I
જેમ શંકરને વિષ અને ચંદ્ર પ્રત્યે સમાન ભાવ છે, જેમ સમુદ્રને જગતની સંજીવનીરૂપ સુધા અને જલનું શાષણ કરનાર વડવાનલ તરફ સમાનભાવ છે, તેમજ ચન્દ્રને ચન્દ્રિકા અને પાતાને કલંક દાયક લાંછન પ્રત્યે સમાનભાવ છે તેમ ઉત્તમ