________________
१९०
हीरसौभाग्यम्
सर्ग ११ श्लो० ६१-६३
વિશ્વના ઉપકારને માટે પુરૂષાર્થ કરે છે. શું જીવાડતા નથી ! ! ૬૧ છે
મેઘે
સકળ
જગતને
अपेक्षां च न क्वापि कुर्वन्ति सन्तः स्वभावेन किं तूपकुर्वन्ति सर्वान् । किमभ्यर्थितानि प्रसूनानि कैश्चिजनान्सोरभैः स्वैर्यदामोदयन्ति ॥ ६२ ॥
च पुनः क्वापि कुत्रापि स्थाने यः कश्चिदभ्येत्यात्यर्थ मामभ्यर्थयते तस्याहं कृत्यं कारोमीत्यपेक्षा । तां न कुर्वन्ति किं तु सन्तः स्वभावेनैव सर्वानुपकुर्वते । परेषामा: त्मव्यतिरिक्तानामुपकारपरायणाः स्युः । तदेव दर्शयति-कैश्चिभोगाङ्गरङ्गिभिः पुरुषैरागत्य प्रसूनानि कुसुमानि किमिति प्रश्ने अभ्यर्थितानि यद्यूयमभ्येत्य अस्मानस्वसौरभैः सुगन्धीकुरुतेति किं प्रार्थितानि । यत्कारणात् स्वैरात्मीयैः सौरभैः परिमलैः कृत्वा जनान लोकानामोदयन्ति सुरभीकुर्वन्ति । 'आमोदो गन्धहर्षयोः' इत्यनेकार्थः ।।
કાથ
સપુરૂષે કઈપણ સ્થાને પ્રાર્થનાની અપેક્ષા રાખતા નથી, અર્થાત “જે કંઈ મારી પાસે આવીને ખૂબ અભ્યર્થના કરે, તેનું હું કામ કરૂં” આવી અપેક્ષા ન રાખે પરંતુ પિતાના સ્વભાવથી જ સર્વ પર ઉપકાર કરે છે. શું અર્થિત પુ મનુષ્યને પિતાની સૌરભથી સુવાસિત કરે છે ? અર્થાત્ “અમને તમારી સૌરભથી સુવાસિત કરે એવી પ્રાર્થનાની અપેક્ષા વિના જ પુષે સુવાસ આપે છે. ૫ ૬૨
कदाचिद्वसन्तस्य संदेशवाचोऽपि च प्रेषिता क्वापि कि कुञ्जलक्ष्म्या । मृगाक्षीमिवोत्कण्टकां मञ्जरीभिः प्रसूनैरयं हासयामास यत्ताम् ॥ ६३ ॥
अपि पुनरथे । अपि चापराथे च । कदाचित्कस्मिन्नपि समये क्वापि कुत्रापि स्थाने अनलक्षम्या वनश्रिया वसन्तस्य वसन्तसमयस्य किं संदेशवाचः उदन्ताः प्रेषिताः प्रहित सन्ति । यत्कारणादयं वसन्तस्तामुद्यानेन्दिरां मृगाक्षी स्वसारङ्गलोचनां प्रेयसीमिव प्रसूनैः स्मेरकुसुमैः कृत्वा हासयामास । कान्तोऽपि स्वकान्तां प्रसूनादिक्रीढाभिः हासयति । हास्यकलितामिव चकारेत्यर्थः । किंभूतां श्रियं कान्तां च । कलितानि सुरभिसमयस्मयमा नामानपादेषु नवप्रकटीभवत्कुसुमकोरकैरुत्कण्टका सरोमाञ्चकञ्चुकामुच्चै रोमाञ्चां च ॥