________________
सर्ग ११ श्लो० ६०-६१]
हीरसौभाग्यम्
पाणिपदमे समर्पित इत्यर्थः । इति किम् । हे प्रभो, अयं लेखो गृह्यताम् । किंभूतः । सुशोभनो वर्णो ब्राह्मणादिविद्यते यस्य । पुनः किंभूतः । अवर्णः न विद्यते वर्णो यस्य । इति विरोधः । विरोधशान्तौ तु विशिष्टः शुक्लादिरथ वा शोभनं स्वर्णम् अथ वा चित्रमालेख्य वा यस्मिन् सः । अथ कृष्ण इव श्यामा वर्णा अक्षराणि यत्र । 'वर्णः स्वर्णे मखे स्तुतौ ।। रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे । भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः । अङ्गरागे च वर्ण तु कुडकुमे' इत्यनेकार्थः । पुनः किंलक्षणः । लेखो देवोऽपि सन् सुराणां निराणामावासे बसतीत्येवंशीलः । अयमपि विरोधः । लिख्यते लिपीक्रियते स्वहृदयगतोदन्तादिरति लेखः । पुनः किंभूतः । मूकः अवागपि बचनरहितोऽपि उदन्तं वाचिक सर्वसमाचारं बुवाणो वदन् । अयमपि विरोध; । शान्तौ तु प्रेषकेणान्तलिपिविषयीकृतं सविस्तरं वाचिकः कथयन् ॥ इति श्राद्धानामकब्बरसाहिबखानयोरुदन्तकथनपूर्व गुरूणां तत्स्फुरन्मानार्पणम ॥
કલેકાર્થ “હે પ્રભે, આ લેખ ગ્રહણ કરો” આ પ્રમાણે કહીને રાજનગરના શ્રાવકેએ મુનિચંદ્રશ્રી આચાર્યદેવની આગળ તે લેખ (ફરમાન) મૂકો. સુશોભિત વર્ણ (અક્ષર) થી યુક્ત હોવા છતાં પણ વર્ણથી (બ્રાહ્મણ આદિ જાતિથી) રહિત, દેવ હોવા છતાં પણ સ્વર્ગવાસી નહીં અને વચન રહિત (મૂંગે) હોવા છતાં વિસ્તૃત સમાચાર આપતા તે લેખ શ્રાવકોએ શ્રીહીરવિજયસૂરિની આગળ મૂક્ય. . ૬૦ છે
प्रदेशीव केशिवतिक्षाणिशरसौ बोधनीयो नृपः पूज्यपादैः । महान्तो हि विश्वोपकृत्यै यतन्ते घनाः किं न सर्व जगज्जीवयन्ति ॥ ६१॥
पूज्यपादः श्रीपूज्यैरसौ नृपोऽकब्बरपातिसाहिः बोधनीयः प्रतिबोधयितव्यः धर्म स्थापनीयः । क इव । प्रदेशीव यथा केशिवतिक्षोणिश: केशिनामगणवरैः प्रदेशी नाम नृपो बोधितः श्रीमज्जिनधमें स्थापितः । हि यस्मात्कारणात् महान्तः सन्तो विश्वस्य जगज्जनस्य उपकृत्य उपकारकृते यतन्ते उद्यम कुर्वन्ति । तदेव दृष्टान्तयति-घना मेघाः सर्व समस्त सचराचरं जगद्विश्वजनं किं न जीवयन्ति । अपि तु स्ववारिवृष्टिभिर्जीवयन्त्येव । यदुक्तम्-'संप्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः । जलद त्वयि विश्राम्यति जगतोऽपि हि जीवितारम्भः ॥' इति जीवनदायित्वाच्च ।।
કાથી હે પૂજય, જેમ કેશીગણધરે પ્રદેશ રાજાને પ્રતિબંધ કર્યો હતો તેમ આપશ્રીએ અકબર બાદશાહને ધર્મમાર્ગમાં સ્થાપિત કરવા યોગ્ય છે. કારણકે સન્તપુરૂષે જ