________________
सर्ग ११ श्लो० ४५-४७]
हीरसौभाग्यम्
विचिन्त्यात्मचित्ते तदादेशमहेन्मतस्योदयस्वर्द्वमस्येव बीजम् । तपापक्षमुख्याखिलश्राद्धलोका मिलित्वा मिथः प्रोचुरानन्दसान्द्राः ॥ ४५ ॥
तपा इति नाम यस्य तादृग्गणस्य गच्छस्य पक्षः स्वीकारो येषां ते तपापक्षाः । 'अपक्षपातेन परीक्ष्यमाणः पक्षः' इत्यनेकार्थवृत्तौ । तेषु मुख्याः श्रेष्ठा अखिलाः समग्राः श्राद्धलोकाः श्रावकजना मिलित्वा एकत्र संभूय मिथः परस्परमानन्देन सान्द्रा व्याप्ताः प्रोचुः कथयन्ति स्म । किं कृत्वा । आत्मचित्ते निजमनसि तदादेशं साहिबखानाज्ञामहन्मतस्य जिनशासनस्य य उदयः स एव स्वर्द्वमः कल्पवृक्षः तस्य बीज निदानमुत्पत्तिकारणमिति विचिन्त्यालोच्य ॥
શ્લોકાર્થ
સાહિબખાનની જિનશાસનરૂપી ક૯૫વૃક્ષના બીજ સમાન આજ્ઞાને મનમાં વિચારીને અત્યંત આનંદિત બનેલા તપગચ્છનાં મુખ્ય મુખ્ય સર્વે શ્રાવકો એકત્ર થઈને પરસ્પર વાર્તાલાપ કરવા લાગ્યા. આ ૪૫
इतः शासनं शासितुर्नः प्रजानामितो वन्दनीया विभोर्वन्धपादाः । इदं सौरभारोपणं जातरूपे त्रिरेखे पयःपूर्तिरप्याविरासीत् ॥ ४६॥
इतोऽस्मिन्पावे एकपक्षे प्रजानां शासितुरकमिपुराधिपतिसाहिबखानस्य शासनमादेशः । तथा इतोऽपरस्मिन्पाश्वे विभोः सूरीन्दोर्वन्द्यास्त्रिभुवनजननमस्करणीयाः पादाश्चरणा वन्दनीयाः प्रणतिगोचरीकार्याः । तर्हि इदमेतज्जातरूपे सुवर्णे सोरभस्य सुगन्धताया आरोपणं कर्तब्धमस्ति । पुनस्त्रिरेखे शके पयसां दुग्धानां पूर्तिः पूरणमाविरासीत्प्रकटीभूतम् ।।
કલેકાર્થ
એક બાજુ અમદાવાદની પ્રજાના શાસનકર્તા સાહિબખાનની આજ્ઞા અને બીજી બાજુ વિશ્વવંદનીય આરાધ્ય પાદ શ્રી આચાર્યદેવ. તે ખરેખર જાત્યસુવર્ણમાં સુગધને આરેપ કરવા જેવું છે (સોનામાં સુગંધ જેવું) અથવા દક્ષિણાવર્તશખમાં દૂધનું प्रट थया रे यु. ! ॥ ४६॥
हृदन्तर्मुनीन्दोनिनंसा पुरास्ते नियुक्ता पुनः स्वामिनेदं तदासीत् । प्रतिस्थानमालोकमानान्मनुष्यान्समेत्य स्वयं पद्मवासा वृणीते ॥ ४७ ॥