SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७६ हीरसौभाग्यम् [सर्ग ११ श्लो ० ३४-३६ णप्रणामकरणपरिपाट्या तेषामकमिपुरतपापक्षश्राद्धानां संनिकर्ष समीपं गताः प्राप्ताः सन्तः प्रभोः स्वस्वामिनः सर्व निदेशमाज्ञां निर्दिशन्ति स्म निवेदयन्ति स्म कथयन्ति स्म ।। લેકાર્થ જેમ ચન્દ્ર, પિતાના કિરણો દ્વારા ચકેરને બોલાવે છે તેમ સાહિબખાને પિતાના સેવક દ્વારા અમદાવાદના શ્રાવકને લાવ્યા. તે સેવકે પણ શ્રાવકેની પાસે ગયા અને પિતાના સ્વામીના આદેશનું નિવેદન કર્યું. ૩૪ છે समानीयमाना अमीभिर्जनास्तेऽप्यराजन्त मध्येपुरं दानशौण्डाः। महामात्रवृन्दै_िपेन्द्रा इवोर्वीपतेर्मन्दिर दानधारां किरन्तः ॥ ३५ ॥ अमीभिः साहिवखानभृत्यैर्मध्येपुरमकमिपुरस्य मध्ये । 'पारे षष्ट्या वा समस्यते'। समासश्चाव्ययीभावः । 'गङ्गायाः पारे पारेगङ्गम् । गङ्गायामध्ये मध्येगङ्गम्' इति प्रक्रियाकौमुद्याम् । तद्वन्मध्येपुरं सम्यक् समाननादिप्रकारेणास्ते श्राद्धा अपि व्यराजन्त शुशुभिरे । किंभूताः । दानशौण्डाः बहुद्रव्यप्रदायिनः विश्राणनेन विख्याता वा । 'शौण्डा विख्यातमत्तयोः' इत्यनेकार्थः । के इव । द्विपेन्द्रा इव । यथा महामात्राणां हस्तिपकानां 'माहत' इति प्रसिद्धानां वृन्दैराधोरणगणैः उर्वीपते राज्ञो मन्दिरे नीयमाना गजराजा विराजन्ते । किं कुर्वन्तः । दानधारां मदवारिवृष्टि कुर्वन्तः सृजन्तः क्षरन्तः ।। લેકાર્થ જેમ મહાવતે વડે લવાયેલા મદજલની વર્ષા કરતા ગજેન્દ્રો રાજમહેલને શોભાવે તેમ સાહિબખાનનાં સેવકે વડે સન્માનપૂર્વક બોલાવાયેલા દાનેશ્વરી શ્રાવકો અમદાવાદની મધ્યમાં શોભતા હતા. છે કપ છે जना जैनपक्षैकदक्षाः क्षितिक्षित्समाजं विशन्ति स्म संभूय सर्वे । ततस्सोऽप्यनयॊपदापूर्णपाणीन्स्वबन्धूनिवास्थापयत्तानुपान्ते ॥ ३६॥ - सर्व समस्ता जना; जिनानां वीतरागाणामय जैन; स चासौ पक्षश्च । जिनशासनमित्यर्थ; । तत्रैकतया अद्वितीयत्वेन दक्षा अतिनिपुणा जना; श्राद्धाः संभूय एकत्र मिलित्वा क्षितिक्षित; खानस्य समाज सभाँ विशन्ति स्म । सभामध्ये ययुरित्यर्थ; । ततो जनाग
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy