________________
सर्ग ११ श्लो ० २४-२६ ]
हीरसौभाग्यम्
१७१
तेन दूतद्वन्द्वेन असौ साहिबखानः क्ष्मापते मीभर्तुः कुमार्याः कन्याया इव मापतेरकब्बरसाहेः पत्रिकायाः स्फुरन्मानस्य पाणिना हस्तेन ग्रहणमादानं स्वीकरणं वा पाणिग्रहण परिणयन' च कार्यते स्म निर्माप्यते स्म । पाणौ ग्राहितेत्यर्थः । किंभ्रतायाः प कायाः कुमार्याश्च । अद्वैतया अनन्यसामान्यया सुशोभनानां वर्णानामक्षराणां हेम्नश्च श्रिया लक्ष्म्या सुवर्णतुल्यया वा श्रिया अलंकृताया भूषितायाः । पुनः किंभूताया । सुधाममृतं स्पदन्ते क्षरतीति प्रस्रवतीत्येवंशीला या वाग्वैदुषी वचनचातुरी तथा भूषितायाः ॥
શ્લોકાથ
ડૂતે વડે, સુવર્ણાક્ષરોની અદ્વૈત લક્ષ્મીથી અલંકૃત તેમજ સુધા' સ્પંદન જેવી વચન ચાતુરીથી સુશોભિત એવી અર્પણ કરેલી બાદશાહની પત્રિકાનું સાહિબખાને २०१४न्यानी म पाखि ४यु ! ॥ २४ ॥
ततः कोशवद्भूमहेन्द्रस्य मुद्रां प्रमोदादुपादाय लेख दधानम् । विमुद्याक्षराण्यक्षिलक्षाणि कुर्वन्विवेदाशयं तस्य निःशेषमेषः ॥२५॥
ततो लेखादानानन्तरमेषः साहिबखानः तस्य स्फुरन्मानस्य निःशेष समग्रमप्याशयमभिप्रायं रहस्यं विवेद जानाति स्म । किं कुर्वन् । बिमुद्य मुद्रयित्वा अक्षराणि वर्णानक्षिलक्षाणि लोचनगोचरान् कुर्वन् । किं कृत्वा । प्रमोदादानन्दाल्लेख साहिस्फुरन्मानमुपादाय 'तसलीम' इति यवनप्रसिद्धेन नाम्ना प्रणामपूर्व तदुपरि स्वशिरोमोचनपूर्व वा गृहीत्वा । किं कुर्वाणं लेखम् । भूमहेन्द्रस्य राज्ञः कोशं भाण्डागारमिव मुद्रां मुद्रणं निमीलनं दधानम् ॥ इति साहिस्फुरन्मानस्यार्पणं वाचनं च ॥
શ્લેકાર્થ
ત્યારપછી ભંડારની જેમ બાદશાહના ફરમાનને પ્રણામ કરીને, તેના પર મસ્તક મુકીને)અક્ષર વાંચીને સાહિબખાને તરત જ બાદશાહના સમસ્ત અભિપ્રાયને જાણી લીધે. અર્થાત્ સમગ્ર અભિપ્રાયથી વિદિત બન્યા. આ ૨૫ છે
पुरस्तात्तयोः प्रीतिमान्मुद्गलेशो गिरं वासयामास वक्रारविन्दे ।
विनिर्यद्विजश्रेणिशोचिर्विमिश्रस्मितेनेव तन्वन्मरालैकलीलाम् ॥ २६॥ प्रीतिमान् स्नेहार्द्रहृदयो मुद्गलेशः साहिबखानः तयोर्दूतयोः पुरस्तादग्रे वक्रारविन्दे वदनकमले गिरं वाणीं वासयामास स्थापयति स्म । बभाषे इत्यर्थः । अथ च गिरं