________________
१७०
हीरसौभाग्यम्
[सर्ग ११ श्लो० २२-२४
तथा 'अरे त्व साध्वस मागाः' इति सारस्वतव्याकरणादौ । ग्रामाः सवयथास्तोकचातुर्यादिगुणा ग्रामा लघुपुराणि वा उपलक्षणान्नगरपुरपत्तनादीन्यपि, तथा कुल्या लघुमहद्वादिन्यः, अचलाः पर्वताः, आरामाः उद्यानानि उपलक्षणाबनगहनारण्यादीन्यपि, सीमा ग्रामनगरादीनां क्षेत्रभूमयो देशावसानभुवो वा, ताः क्रमाभ्यां स्वपदाभ्यां न तु यानरतिक्रम्योल्लङ्घय । उत्प्रेक्ष्यते-दूतद्वन्द्व मारुतानां पवनानां रहसां वेगानां सह साधमध्येतीत्येवंशील सहाध्यायि एकगुरुसमीपेऽधीतिकृत्किम् । वेगेन तुल्यत्वादियमुत्प्रेक्षा ॥ इत्यकमिपुरे दूतगमनम् ॥
શ્લેકાર્થ
પવનવેગી ગતિથી ચાલતા દૂતે ગામ, નગર, કુલ, પર્વતે, ઉદ્યાન અને સીમા ક્ષેત્રે આદિને અતિક્રમી અનુક્રમે હર્ષપૂર્વક અમદાવાદ નગરમાં પહોંચ્યા, તે જાણે તે પવનના સહાધ્યાયી ન હોય! અર્થાત્ એક ગુરૂની પાસે જાણે અભ્યાસ કર્યો ન હોય . ૨૨
रणे वैरिणां पार्थिवा येन देहा हताः पेतुरु/मिवाम्बां मिलन्ति । ययौ तत्पुराधीशितुः संनिधाने द्वयं दूतयोर्मुद्गलक्षोणिभर्तुः ॥ २३॥
दूतयोः शासनहारिणोयं युगलं तस्याहम्मदाबादनाम्नः पुरस्य नगरस्याधीशितुः स्वामिनः मुद्गलानां काबिलमण्डलजन्मनां यवनजातिविशेषाणां क्षोणिभर्तु पस्य संनिधाने समीपे ययौ । तस्य कस्य । येन साहिवखानेन रणे संग्रामाङ्गणे वैरिणां शत्रूणां पृथिवीपरमाणुभिरारब्धाः पृथिवीविभागाः पृथिवीसंबन्धिनः । 'पार्थिव हि निजमाजिषु वीरा गौरवाहपुरपास्य भजन्ते' इति नैषधे । देहाः शरीराणि हताः करवालैापादिताः सन्तः पेतुः । क्षितौ पतन्तीत्यथैः । उत्प्रेक्ष्यते-उर्वीमम्बां क्षोणीं मातरं मिलन्तीव पृथिव्युत्पत्नत्वेन स्नेहात् ।।
શ્લેકાર્થ
તે બંને દૂત, અમદાવાદના સ્વામી મંગલવંશીય સાહિબખાન પાસે ગયા, તે સાહિબખાન વડે સંગ્રામમાં હણેલા શત્રુઓના પાર્થિવ શરીર હજુ સુધી પૃથ્વી ઉપર પડ્યાં હતાં, તે જાણે ! નેહથી પૃથ્વીમાતાને મળ્યા ન હોય ! ! ૨૩ છે
सुवर्णश्रियाद्वैतयालंकृतायाः सुधास्पन्दिवाग्वैदुषीभूषितायाः । कुमार्या इव क्ष्मापतेः पत्रिकाया असौ तेन पाणिग्रहः कार्यते स्म ॥ २४ ॥