________________
सर्ग ११ श्लो ० २०-२२]
हीरसौभाग्यम्
१६९
सम्यक शिरस्यारोपणपूर्वमादाय गृहीत्वा । उत्प्रेक्ष्यने-अनूनां संपूर्णा तनू शरीरमुखहन् बिभ्राणः । तथा व्रतीन्द्रं सरिराजं प्रति प्रसर्पन गच्छन् । एतदीयोऽकम्बरसाहिसंबन्धी अभिलाषः कामः मनोरथ इव ॥
કાથ ત્યાર પછી બંને દૂએ રાજાનું ફરમાન લઈને બાદશાહ પાસેથી પ્રયાણ કર્યું, તે જાણે સૂરિરાજ પ્રત્યે ગમન કરતા એવા અકબર બાદશાહનો મૂર્તિમંત અભિલાષ न डाय ! ॥२०॥
प्रबुद्धैरबोधीति नोत्तालफालं चलद्वीक्ष्य जङ्घालदूतद्वयं तत् ।
स्पदस्फूर्तिरस्थैर्यभाजां मनोभिस्ततस्तेन तेभ्योऽथ बाधीयते स्म ॥२१॥ उत्ताला अतित्वरिता फाला गगनगामीनि उल्ललनरूपा गतिविशेषा यस्य तादृशं तत्साहिसंबन्धि साहिप्रेषितं वा जङघालमतिवेगवद्गतिकं दूतद्वयं संदेशहारकयामलं चलत्पथि प्रसपत् वीक्ष्य विलोक्य प्रबुद्धविद्वद्भिरेतन्नाबोधि न ज्ञातम् न मनस्यवधारितम् । इति किम् । न स्थैर्य स्थिरतां भजन्ते इत्यस्थैर्यभाजः चपलाशयास्तेषां मनोभिश्चित्तैस्तस्मादृतयुग्मात्किमिति उत्प्रेक्षायां विचारणायां वा । स्पदानां गतिवेगानाम् । 'रयो रहस्त्वरः स्पदः' इति हैम्याम् । तथा 'स्षदझाङ्कारितपत्नपद्धतिः' इति नैषधे । स्फूतिरतित्वरितता अधीयते स्म पठिता । अथ वा तेन दंतद्वन्द्वेन तेभ्यो मनोभ्योऽधीयते स्म शिक्ष्यते स्म किम् । इति संशयोत्प्रेक्षा ॥
પ્લેકાર્થ
અતિત્વરિત ગતિથી ચાલતા બંને દૂતોની વાયુવેગી ગતિ જોઈને પંડિત પુરૂષ જાણી શક્યા નહીં કે ચપળ આશયવાળાઓનાં મન પાસેથી આ દૂતોએ શું શિક્ષણ લીધું હશે? અથવા આ દૂતોએ મન પાસેથી શિક્ષણ મેળવ્યું હશે?” અર્થાત્ દૂની મન જેવી શીવ્ર ગતિ હતી. છે ૨૧
क्रमाभ्यामतिक्रन्य संदेशहारिद्विकं ग्रामकुल्याचलारामसीमाः । मुदाहम्मदाबादमागात्क्रमात्तत्सहाध्यायि किं रंहसां मारुतानाम् ॥२२॥
क्रमादनुक्रमतः स्वादेशपरदेशप्रचलनपरिपाट्या तत्साहिसंवन्धि संदेशहारिद्विक दूतद्वयं मुदा हर्षोत्कर्षण अहम्मदाबादमागादकमिपुरमाजगाम । ‘मा गास्त्वं खेदमन्दिरम्,' हि, सौ, २२