________________
सर्ग ११ श्लो० १२-१४]
हीरसौभाग्यम्
વૃક્ષ સાથે ઉપર પગ બાંધીને નીચે મસ્તક લટકાવીને કણ કરનાર. ધૂમ્રપાથી અથવા અમૃતપાયી કઈ દેવ વિશેષ, આ બધામાંથી આપને જેનું કાર્ય હાય. આ૫ આજ્ઞા આપે કે જેથી તેઓને અમે બોલાવી લાવીએ. . ૧૨
निगद्येति विश्रान्तयोरेतयोस्तां गिरं श्रोत्रधर्माध्वनीनां प्रणीय । अगृह्यन्त वाचः पयोराशिकाञ्चीशचीशेन शङ्के सुधाया वयस्यः ॥ १३ ॥
पयोराशिः समुद्रः काञ्ची मेखला यस्यास्तस्या भूमेः शचीशेन पुरंदरेण वाचो वाण्यः अगृह्यन्त गृहीताः । वभाषे इत्यर्थः । तत्र वाच अहमेव शके वितर्कयामि उत्प्रेक्षे वा-वाचः सुधाया अमृतस्य वयस्यः सख्य इव । किं कृत्वा । इत्यमुना प्रकारेण निगा साहेः पुरः कथयित्वा विश्रान्तयोमौनमाधाय स्थितयोः एतयोईतयोस्तां पूर्वप्रतिपादिर्ता गिरं वाणी श्रोत्रयोः स्वश्रवणयोरेव वर्त्मनामार्गयोरध्वनीनां पान्थीं प्रणीय ॥
લોકાઈ
આ પ્રમાણે કહીને મૌન રહેલા તેની વાણી સાંભળીને સમુદ્રપર્યંતની ભૂમિને ઇંદ્ર અકબર બાદશાહ બલ્ય, તેની વાણી જાણે સુધાની સખી ન હોય તેવી હતી. ૧૩ .
धनरायुरापूर्तिभिश्च प्रजानां प्रचेतस्तया कोशसंपूरणैश्च । भजन्तेऽनुकूलां प्रवृत्तिं दिगीशाः प्रवाहा इवावारपारप्रियाणाम् ॥ १४॥
हे दूतौ, दिगीशाश्चत्वारोऽपि हरिन्महेन्द्राः मम मनोरुचितां ममाभिलषितां वा प्रकर्षेण वृत्तिं वर्तनम् । व्यापारमिति यावत् । भजन्ते श्रयन्ति । ममानुकूलीकरणार्थ प्रयतन्ते । कैः कृत्वा । घनैरिन्द्रो मेघवर्षणैः । 'जानामि त्वां प्रवर(कृति)पुरुषं कामरूपं मघोनः' इति मेघदूतकाव्ये । 'इन्द्रादिष्टो मेघो वर्षति' इति श्रुतिश्च । च पुनरायुरापूर्तिभिः यमः प्रजानां ममापत्यानां सकललोकानामायुषो जीवितकालस्य आ सामस्त्येन पूर्तिभिः संपूणैर्यावदायुर्जीवितप्रदानैः । अर्धायुष्कं कमपि न यमो गृहातीत्यर्थः । च पुनः प्रजानां प्रकृतीनां प्रचेतस्तया प्रकृष्ठचित्तत्वेन साधुवृत्तितया वरुणः । प्रजानामित्युभयत्रापि लालाघन्टान्यायेन संबध्यते । च पुनमें मम कोशानां भाण्डागाराणां रत्नस्वर्णरजतादीनां संपूरणैः पूरणीकरणैर्भरणैर्धनदः। के इव । प्रवाहा इव । यथा अवारपारप्रियाणां पयोराशिपत्नीनामाघाः कूल तटमनु लक्षीकृत्य प्रवृत्ति प्रवर्तनं प्रसरणं गमनं भजन्ते गच्छन्ति ॥