________________
सर्ग ११ श्लो ० ९-१०]
हीरसौभाग्यम्
हे भूमिभर्तः हे धरणीरमणीरमण, यः कोऽपि विपक्षादिको भवत्तस्त्वत्तः सकाशात वैमुख्यभाक् पराङ्मुखताभाजी भवेत् । कस्मादिव । त्रिलोक्यास्त्रिभुवनस्य अधीशितुः स्वामिनः परमेश्वरादिव । यथा कोऽपि पापात्मा परमेष्ठिनः पराङमुखो भवति । किं कुर्वन् । अजानन् अविदन् । कानि । वनाकेषु काननानां क्रोडेषु मध्येषु पुरस्तादने उदेष्यन्ति प्रकटीभविष्यन्ति उत्पत्स्यमानानि अनन्तान्यपाराणि न विद्यतेऽन्तोऽवसानं येषां तादृशानि दुःखानि । यः किंभूतः । स्मयानामहंकाराणां खानिराकरः स्थानम् । अथ च भगवतः पराङ्मुखोऽपि पाप्मा अनादिकालानामात्याकीनं शैवशासनभिति गर्वावेशवशंवदो दुर्बुद्धिर्वनाकेषु सूक्ष्मबदरसाधारणप्रत्येकवनस्पतिकायादिमध्येषु पुरस्ताद्भाविसंसारपरम्परासु प्रादुर्भविष्यन्ति संपत्स्यमानानि अनन्तानि अनन्तकालवेद्यानि दुःखानि छेदनभेदनाद्यनेकवेदना न जानीते । मिथ्थामतमूढीभूतत्वान्न वेत्तीत्यर्थः ॥
શ્લોકાઈ હે સ્વામિન ! ભવિષ્યનાં અનન્તાનઃ દુઃખની ખાણરૂપ નિગદ આદિ દુર્ગતિઓનાં દુઃખ નહીં જાણનાર મિથ્યાત્વી પાપાત્મા પુરૂષ ત્રણ લેકના અધિપતિ એવા પરમાત્માથી પરમુખ બને તેમ જંગલમાં વસવાટના કારણે ઉત્પન્ન થતાં ભવિષ્યનાં દુઃખની પરંપરા નહીં જાણનાર અહંકારની ખાણરૂપ એવો કેણ મૂર્ખ શત્રુ છે, કે જે આપનાથી विभुम भने ? ॥
असंख्येषु संख्येषु विद्वेषिलक्षाविलक्ष्यीकृतेर्बिभ्रदुत्सेकभावम् । विधित्सुमधं भूधवौद्धत्यभाग्यस्त्वया पूर्वदेवेशबत्केशवेन ॥१०॥
. हे भूधव पृथिवीप्रियतम, औद्धत्यवान उद्धततया उन्मत्तत्वेन वा युक्तः कोऽपि नृपः त्वया भवता साहिना समं मृधं युद्धं विधित्सुः कर्तुमिच्छुर्भवेत् । किंवत् । पूर्वदेवेशवत् । यथा दानवेन्द्रः केशवेन नारायणेन साध संग्रामं विधातुमिच्छति । 'असुरा दितिदनुजाः पातालौकः सुरारयः । पूर्वदेवाः शुक्रशिष्याः' इति हैम्याम् । यः किंभूतः । असंख्येषु संख्यातीतेषु अनेकेषु संग्रामेषु संख्येषु विद्वेषिणां वैरिणां लक्षाणां शतसहस्राणां विलक्ष्यीकृतेरभिभवनादुत्सेकभाव गर्वावेशवशंवदताम् । 'उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् इति रघौ । विभ्रद्दधान ॥
શ્લેકાર્થ
હે પૃથ્વી પાલ! દાનવેન્દ્ર જેમ નારાયણની સાથે યુદ્ધ કરવા ઈચ્છે તેમ અસંખ્ય યુદ્ધમાં લાખો શત્રુઓને પરાજિત કરનાર એવા આપની સાથે અભિમાની બનેલે ઉદ્ધત એ કેણ રાજા છે, કે જે આપની સાથે યુદ્ધ કરવાની સ્પૃહ રાખે છે? છે ૧૦ છે