SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सर्ग ११ श्लो० ५-६] हीरसौभाग्यम् १६१ वचोवैदुषीमेतदीयामधृष्यां निरूप्य प्रतीपैः क्षितीशैः प्रणेशे । यदुर्वीविभोरागमात्प्राग्गभस्तेरिवानूरुरोचिस्तमिश्रप्रसारैः ॥ ५॥ पतदीयां दूतयुग्मसंबन्धिनीमधृष्यामनाकलनीयां प्रतिपक्षपक्षलक्षस्वान्तक्षोभकारिकां वचोवदुषीं वचनचातुरीं निरूप्य प्रेक्ष्यार्थादवघार्य यदुर्वीविभोः यस्याकब्बरसाहेरागमादभिषेणनैरागमात्प्राक् पूर्वमेव प्रतीपैविरोधिभिः क्षितीश पालैः प्रणेशे प्रपलायितम् । कैरिव । तमिश्रप्रसारैरिव । यथा गभस्ते नोः आगमादुदयात्पूर्वमनूरुरोचिः अरुणप्रभां विभाव्य । ध्वान्तविस्तारैः प्रणश्यते ॥ आदितश्चतुर्भिः कुलकम् ॥ इति दूतस्वभावः ॥ શ્લોકાથ જેમ સૂર્યોદય પૂર્વે અરૂણોદય જોઈને અંધકારસમૂહ ભાગી જાય છે, તેમ શત્રુ એના હૃદયને સુભિત કરનારી છે તેની વાકચાતુરીથી, અકબર બાદશાહના આગમન પૂર્વે જ શત્રુરાજાએ પલાયન થઈ જતા હતા. જે ૫ છે चिरं जीव नन्देति दूतौ निगद्याधिपं नेमतुमूनि पाणी प्रणीय । पुनस्तौ सुधासाधिमानं दधत्या संभावयामास वाचेव दृष्टया ॥६॥ हे प्रभो, त्वं चिरं बहुकालं गलितावधिसमयं जीव मेरुमहीधरसमानमायुः परिपालय । तथा नन्द पुरंदरवत्परमसमृद्धिमान् भव । इत्यमुना प्रकारेण निगद्य आशीर्वचनं कथयित्वा । तथा मूर्ध्नि मस्तके पाणी स्वहस्तौ प्रणीय संयोज्य । शिरस्याञ्जलिं विधायेत्यर्थः । तौ दूतौ संदेशहारको अधिपं स्वामिनं नेमतुः प्रणमतः स्म । पुनः सोऽकन्वरसाहिः तौ दूतौ प्रति सुधयेव पीयूषेनेव साधिमानं मधरिमाणं शभ्रिमाणं च दधत्या धारयन्त्या । 'त्वयादृतः किं भरसाधिमभ्रमः' इति नैषधे । वाचेव वाण्येव दृष्टया दृशा विलोकनेन कृत्वा संभा. वयामास । प्रसन्नशा व्यलोकयदित्यर्थः ॥ પ્લેકાર્થ હે પ્રભે, આપ ચિરંજી ! આપ દીર્ધાયુ બને ! આપ સમૃદ્ધિવાન બને” આવા આશીર્વચન સંભળાવીને મસ્તકે અંજલિ કરીને તે બંને દૂતેએ બાદશાહને નમન કર્યું. ત્યારબાદ અકબર બાદશાહે સુધાની સમાનતા ધારણ કરતી વાણની જેમ પ્રસન્ન દષ્ટિથી અર્થાત્ પીયૂષભરી દષ્ટિથી તે બંને સામે જોયું. ૬ हि. सौ. २१
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy