________________
सर्ग ११ श्लो० १-२]
हीरसौभाग्यम्
१५९
एकादशः सर्गः ।
अथाहातुमीहांबभूवाधिनेमीतमीशो मुनीनां सुनासीरमेनम् । प्रबोधाय धर्मात्मनः किं निजस्यावतीर्ण पुनर्हेमचन्द्रं व्रतीन्द्रम् ॥१॥
अथ सभ्यजनवर्णितश्रमणेन्द्रगुणश्रवणानन्तरमधिनेमेः समुद्रमेखलाया भूमेस्तमीशो रात्रिपतिश्चन्द्रः । भूपतिरित्यर्थः । सः अकब्बरसाहिः एन श्रीहीरविजयनामान मुनीनां सुनासीर वाचंयमपुरंदरमाह्वातुं स्वसमीपे समाकारयितुमीहांबभूव वाञ्छति स्म । धर्म एव आत्मा स्वरूपं यस्य भाविनिभूतोपचारात् तादृशस्य निजस्याकब्वरात्मनः प्रबोधाय धर्मावबोधार्थम् । अथ च धर्मात्मनः कुमारपालस्य । 'कुमारपालचौलुक्यो राजर्षिः परमाहतः । मृतस्वमोक्ता धर्मात्मा मारिव्यसनवारकः ॥ इति हैम्याम् । प्रबोधाय प्रतिबोधकृते पुनद्वितीयवारमवतीर्ण गृहीतावतारं हेमचन्द्र व्रतीन्द्रं हेमाचार्य मिव ॥
લોકાથ હવે પૃથ્વીપતિ અકબરને; સાધુઓમાં ઈન્દ્ર સમાન આચાર્ય દેવને પિતાની પાસે લાવવાની ઈચ્છા થઈ. તે ઈચ્છા જાણે પિતાને પ્રતિબંધ કરવા માટે ન હોય! અથવા રાજા કુમારપાલને પ્રતિબંધ કરવા માટે હેમચન્દ્રાચાર્યે જાણે અવતાર લીધે ન હોય !
ततोऽजूहवद्र्तयुग्मं वियुग्मीकृतारातिपक्षः क्षमाकर्मसाक्षी । पयोराशिपर्यन्तराष्ट्रप्रतिष्ठा मनीषीव यद्वेद निःशेषभाषाः ॥२॥
ततः सरेराकारणाकाङ्कानन्तरं क्षमायाः क्षोणेः कर्मसाक्षी भास्थानकब्बरसाहिः स्वसभायां भूमौ च प्रसिद्ध ख्यातिमत् दूतयुग्मं संदेशहारकचन्द्रमजूहवदाकारयामास । किंभूतः क्षमाकर्मसाक्षी । वियुग्मीकृताः वियोगं स्त्रीभिः समं विश्लेष प्रापिताः अरातीनां वैरिणां पक्षा वंशा रिपुवर्गा येन । किंभृतं दूतयुग्मम् । यत् निःशेषाः समस्ता भाषा विविधदेशोक्तीर्वेद जानातीति । क इव । मनीषीव । यथा विद्वान्निःशेषाः षडपि संस्कृत-प्राकृत-मागधी-शौरसेनी पैशाची-अपभ्रंशी लक्षणा भाषा वेत्ति । किंलक्षणा भाषाः । पयोराशयश्चत्वारः समुद्राः पर्थन्तः प्रान्तो येषां तादृशा ये राष्ट्रा देशाः राष्ट्रशब्दः पुंनपुंसके । 'भ्रष्ट्रापहरराष्ट्रातक्रजठराः' इति लिङ्गानुशासने । तेषु प्रतिष्ठा माहात्म्यसिय. द्धिर्यासां ताः ॥
કલેકાર્થ ત્યારપછી સ્ત્રી પરિવાર સાથે શત્રપક્ષને વિયેગી બનાવનાર અને પૃથ્વી પર સૂર્ય