________________
सर्ग १० श्लो ० १२८-१३०]
हीरसौभाग्यम्
१५७
સપુરૂષેની સૃષ્ટિરૂપી મહેલના શિખર ઉપર બ્રહ્માએ આ હીરસૂરિને બનાવીને ખરેખર એક ધજાનું જાણે આરોપણ કર્યું છે ! ૧૨૮
अवनिरजनिजानिः प्रेमरोमाञ्चिताङ्गो
निगदितमिति तेषां कर्णपेयं प्रणीय । रणरणकितचेता जायते स्म व्रतीन्दोः
क्रतुभुज इव सिद्धेर्दायिनो दर्शनाय ॥१२९॥
अवनिः क्षोणी तस्याः । रजनी रात्रिर्जाया यस्य । 'जायाया निङ यलोपश्च' इति । रजनिजानिश्चन्द्रः "अकब्बरपातिसाहिः व्रतीन्दोः सूरिश्वरस्य दर्शनाय अवलोकनार्थ रणरणक औत्सुक्यं जात यस्मिस्तद्रणरणकितं चेतो मनो यस्य तादृशो जायते स्म बभूव । किंभूतः । प्रेम्णा स्नेहेन रोमाञ्चेन पुलकेन च युक्तमङ्ग यस्य । कस्येव । क्रतुभुज इव । यथा कश्चित्सिद्धेरभिलषितस्य दायिनो दानशीलस्य दर्शनार्थमुत्कण्ठमना भवेत् । किं कृत्वा । इति पूर्वोक्तप्रकारेण तेषां सभ्यानां निगदित भाषित सूरिस्तुतिरूपं वचः कर्णयोः पेयं पातुं योग्य श्रवणार्ह प्रणीय कृत्वा ॥
શ્લેકાર્થ
સભાસદેવડે પૂર્વોક્ત પ્રકારે વર્ણન કરાયેલા હીરવિજયસૂરિના ગુણને સંભાળીને જેમ કે ઈ દેવ સિદ્ધ પુરુષના દર્શન કરવા માટે ઊત્કંઠિત બને તેમ પૃથ્વીરૂપી રાત્રિના પતિ ચંદ્ર સમાન અકબર બાદશાહ હીરવિજયસૂરિના દર્શન કરવા માટે ઉત્કંઠિત ચિત્તવાળો બન્યા. ૧૨
अवनिवलयवासवो वशीन्दोर्जगदतिशायिगुणैकतानचेताः ।
वसुपुरुषमिवात्मदिष्टदिष्टं स्वसविधमेनमुपानिनीषुरासीत् ॥१३०॥ अवनिवलयवासवो भूमण्डलाखण्डलः एनं सूरिं स्वसविधं निजसमीपमुपानिनीषुरा. नेतुमिच्छुः आसीत् । किंभूतः । जगन्ति त्रीणि भुवनान्यतिशेरते अतिक्रामन्ति इत्येवंशीला ये गुणास्तेषु एकतानं लयानुगमैकाग्रं चेतो यस्य मानसं यस्य सः। कमिव । वसुपुरुषमिव । यथा आत्मनो निजस्य दिष्टेन भाग्येन दिष्टं दत्तं स्वर्णनरं स्वसमीपमानयति ॥
લોકાથ જેમ કેઈ પૂણ્યવંત પુરૂષ, પિતાના ભાગે આપેલા સુવર્ણ પુરૂષને પોતાની પાસે