________________
१५६
हीरसौभाग्यम्
[सर्ग १० श्लो० १२७-१२८
हे भूमणे क्षोणीमाणिक्य, सोऽपि पुमान् सुगुरोहीरसरेर्यावतः समस्तान् । 'याव ज्जनरञ्जनव्रती' इति नैषधे । 'समस्तलोकरागोत्पादने व्रतमस्यास्ति' इति तवृत्तौ । गुणान् संस्तोतु सम्यक्तया सर्वप्रकारेण वर्णयितुं न प्रभवेन्न समर्थोभवेत् । स कः । यस्य पुंसः चित्रशिखण्डिनां सप्तर्षीणाम् । 'सप्तर्षयश्चित्रशिखण्डिनः' इति हैम्याम् । तनुजवन्नन्दस्येव बृहस्पतेरिव । 'विचित्रवाक्चित्रशिखण्डिनन्दनः' इति नैषधे । पण्डा तच्चानुगामिनी मतिश्चेद्यदि असाधारणी विश्वे कस्यापि सदृशी न सर्वेभ्यो वाग्देवतावाचस्पतिप्रमुखमखभुग्दानवमानवेभ्योऽभ्यधिका । 'साधारणी गिरमुषर्बुधनैषधाभ्याम्' इति नैषधे । साधारणात्स्वार्थे भो विकल्पो ङीपोऽपि विकल्पोक्तिः । साधारणी साधारणा' इति प्रक्रियाकौमुद्याम् । अपि पुनर्भुजगप्रभोर्नागराजस्येव यस्यास्ये यदीयवदने जिह्वानां रसनानां सहस्र द्विसहस्री वा इत्याल्लभ्यते । भवेत् । अपि पुनः सुरेश्वरसरितो गगनगङ्गायाः । 'सिद्धस्वःस्वर्गिरवापगाः' इति हैम्याम् ।यथा सुरापगा तथा सुरेश्वरापगापि । तथा 'सुरेश्वरतटिनीतीरस्थसिद्धाङ्गनाः' इति भोजप्रबन्धेऽपि । वीचीव जातावेकवचनम् । कल्लोलमालिकेवेन्यर्थः । यस्य वाक्चातुरी वचनविलासः कुत्रापि वर्णनादौ अस्खलिता अकुण्ठा क्वापि न स्खलति ।
કલેકાર્થ
હે ભૂમણિ! સમર્ષિના પુત્ર બૃહસ્પતિના જેવી જેની અસાધારણ મતિ હય, શેષનાગની જેમ જેના મુખમાં હજાર બેહજાર જીહવાઓ હોય, તેમ જ જેની વાકચાતુરી ગંગાનાં તરંગોની જેમ અમ્મલિત હોય, તે પણ પુરૂષ હીરવિજયસૂરિના ગુણેની સ્તુતિ કરવા માટે સમર્થ થઈ શકે નહી. ૧૨૭ दृशो गोचरो न श्रुतेः प्राघुणश्च प्रणीतः परः कश्चिदस्माभिरीकू । विधात्रा विधायैनमारोपि विद्मो ध्वजोऽधीश सत्सर्गसौधाग्रशङ्गे ॥१२८॥
हे अधीश हे नाथक, अस्माभिः स्वपरानेकदेशे दृश्वभिः श्रीमत्सभास्तारैरीगद्वैतगुणमणीगणरोहणधरणीधरः परोऽन्यः कश्चित्कोऽपि दुशो लोचनस्य गोचरो विषयः चक्षुर्लक्ष्यः तथा श्रुतेः प्राधुणः कर्णस्याप्यतिथिन प्रणीतः । न दृष्टो नापि श्रुत इत्यर्थः । अत्र वयमेव विद्मः-विधात्रा वेधसा सतामुत्तमानां सर्गः सृष्टिनिर्माणं स एव सौधं मन्दिर तस्याग्रशृङ्गमुपरितनशिखर तत्र ध्वजः केतुरारोपितः । किं कृत्वा । एन सूरिं विधाय निर्माय ॥ इति हीरविजयसरिगुणवर्णनम् ॥
કલેકાર્થ
હે અધીશ ! અમારા વડે અદ્વિતીય ગુણેને ભંડાર એવા બીજા કેઈ પણ પુરૂષ જેવામાં તેમ જ સાંભળવામાં પણ આવ્યું નથી. તેથી અમે જાણીએ છીએ કે