SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५४ हीरसौभाग्यम् [सर्ग १० श्लो ० १२४-१२५ संध्यायां चेत्यर्थः । उत्प्रेक्ष्यते-त्रिदशसुदृशां सुराङ्गनानां गीति गुणग्रामगान श्रोतुं श्रवणविषयीकर्तुं किमयतः गच्छत इव । त्रिदशसुदृशां किं कुर्वन्तीनाम् । सुरशिखरिणः सुपर्वपर्वतस्य तुङ्गे गगनालिङ्गिनि शू गे शिखरे गायन्तीनां गानगोचरीकुर्वन्तीनाम् । कान् । श्रमणेशितुः सरिराजस्य गुणान् । किंभूतां गीतिम् । ध्वनिग्रहपारणां रसिकायितमानससनुजानां श्रवणानाम् । 'श्रुतौ श्रवः । शब्दाधिष्ठानपैजूषमहानादध्वनिग्रहाः ॥ कर्णः श्रोत्रं श्रवणं च' इति हैम्याम् । पारणाम् । यथा उपोषितानां षड्रससरसीकृतरसवतीवल्लने पारणा तदास्वादे चातितृप्तिः स्यात् तथा सरिगुणगीतिश्रवणेन कर्णानां तृप्ति: स्यान् । अत एव श्रुतिपारणां गीतिं श्रोतुं प्रयातः कुत इतोऽस्मात्स्थानान्मेरोः समीपे शिखरसंनिधाने । किंभूतो। स्वादरसिकमनसौ सरसगानाकर्णने रसिकलिते उत्सुकतायुक्ते चेतसी ययोस्तौ ॥ લોકાર્થ મેરૂપવર્તના ગગનચુંબી શિખર ઉપર આચાર્યના ગુણ ગાતી દેવાંગનાઓનાં ગીતને સાંભળવા માટે ઉત્સુક બનેલા એવા ચંદ્ર અને સૂર્ય, રાત્રિ અને દિવસની સંધ્યાના સમયે, અહીંયાથી પિતાના કાને પારણું કરાવવા માટે (સાંભળવા માટે) જાણે જતાં ન હોય ! જેમ કેઈ તપસ્વી ઉપવાસના પારણે વહુરસ ભેજન વડે તૃપ્તિ પામે તેમ ચંદ્ર અને સૂર્ય આચાર્યના ગુણેને સાંભળીને જાણે અત્યંત તૃપ્તિ અનુભવતા ન હોય !i૧૨૪ धन्यास्ते नृपते फलेग्रहि पुनस्तेषामभूजीवितं तैः प्रापे स्वजनुःफलं प्रथमतो गण्याश्च पुण्यात्मनाम् । यैावण्यसुधां न्यपीयततमामाकण्ठमुत्कण्ठितैः सूरैः स्मेरमुखाम्बुजन्मनि शरच्चन्द्रे चकोरैरिव ॥१२५॥ हे नृपते हे नरनाथ, जगति ते पुरुपा धन्याः कृतपुण्याः पुण्यवन्तः । पुनस्तेषां पुरुषाणां जीवित प्राणितव्य' फलेग्रहि सफलमभूत्संजातम् । पुनस्तैरेव मानवैः स्वजनुषः निजावरस्य फलं सार्थयभावःप्रापे लब्धम् । च पुनस्ते मानुषाः पुण्यात्मनां पवित्रात्मनाम् । सुकृतवतामित्यर्थः । मध्ये प्रथमत आदितो गण्याः पुण्यवन्तो जनास्तानादौ संस्थाप्य गणनीयाः संख्यागोचरीकर्तव्याः। ते के। यैरुत्कण्ठा औत्सुक्व जाता येषां ते उत्कण्ठिता स्तैरुकण्ठि तैः सदभिः सूरहीरविजययतिराजस्य स्मेर विकसित' यन्मुखाम्बुजं तस्मिन्विषये लावण्ये सौन्दर्य मेव सुधाम् आकण्ठं कण्ठं मर्यादीकृत्य नितरामतिशयेनापीयततमामापीता आस्वादिता । कैरिव । चकोरैरिव । यथा शरच्चन्द्रे जलधरविरामसमयोदयमानसुधाकिरणे ज्योत्स्नाप्रियैः पीयूषं पीयते ।।
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy