________________
सर्ग १० श्लो० १२३-१२४ ]
हीरसौभाग्यम्
१५३
राजन्यस्य गुणान्गलन्मितिसुधास्पन्दान्निपीयादरा
न्मभोज्या अपि मय्यनादरपरा भोगीश्वरा भाविनः । मां तातानुगृहाण तेन सुघयात्यभ्यथितः साग्रह
तानश्रावयितुं किमम्बुरुहभूरेतान्विकर्णान्व्यधात् ॥१२३॥ हे राजन, अम्बुरुहभूब्रह्मा तान् सूरिगुणान् अश्रावयितुं न श्रवणगोचरीकारयितुम् । उत्प्रेक्ष्यते-एतान् भोगीन्द्रान विकर्णान्कर्णरहितान् व्यधात् कृतवानिव । 'अश्रोत्राः फणिनस्तदेव रुचिरं नो चेदहिस्वामिना' इति खंडप्रशस्तौ । किंभूतो वेधाः । तेन कारणेन हे तात धातः, मामनुगृहाण मय्यनुग्रहं कुरु इत्यमुना प्रकारेण सुधया ककोलाख्येन पीयूषेन साग्रह सोपरोधमभ्यर्थितो याचितः । यत्तदोः संबन्धाधेन कारणेन गलन्ती निर्यान्ती मितिर्मानं वेषु । अप्रमाणानित्यर्थः । तादृशान सुधास्पन्दानमृतरसान् यस्य गुरोर्गुणान् निपीय सादर श्रुत्वा अहमेव भोज्य भोजनं येषां ते मद्भोज्या अपि भोगीश्वरा- सर्वेऽपि नागेन्द्राः मयि सुधायां विषये न विद्यते आदरः आदृतिः पुरोऽने येषाम् । अथ वा आदरे तत्परता येषां ते अनादरपरा अस्वीकारपरायणा इत्यर्थः । भाविनो भविष्यन्ति । इत्यय हेतुः ॥
શ્લેકાર્થ હે રાજન, બ્રહ્માએ નાગેન્દ્રોને કાન વિનાના બનાવ્યા ! શા માટે ? આચાર્યના ગુણરૂપી અમાય અમૃતરસ આદર પૂર્વક મારે ભેજય પય છે, પરંતુ નાગેન્દ્રો ભવિષ્યમાં મારા વિષે (ગુણોરૂપી સુધા વિષે) અનાહારવાળા બનશે. આ કારણથી હે પિતાજી, મારા ઉપર કૃપા કરો. આ પ્રકારે સુધાની આગ્રહપૂર્વકની પ્રાર્થનાથી જાણે બ્રહ્માએ નાગેન્દ્રો (નાગેને) ને કાન વિનાના બનાવ્યા ન હોય ! ૧૨૩
सुरशिखरिणस्तुङ्गे शृङ्गे ध्वनिग्रहपारणां
त्रिदशसुदृशां गायन्तीनां गुणाऽश्रमणेशितुः। रसिकमनसौ श्यामारामावराम्बरकेतनौ
किमयत इतो गीति श्रोतुं तमीदिवसात्यये ॥१२४॥ श्यामा शर्वरी सैव रामा वनिता तस्या वरो भर्ता । 'यामिनीकामिनीपतिः' इति काव्यकल्पलतायाम् । चन्द्रः, तथा अम्बरकेतनः सूर्यः । 'गगनध्वजाध्वगाः' इति हैम्याम् । यथा गगनध्वजस्तथा पर्यायपरिवर्तनादम्बरकेतनः । 'दयेऽपि भूभृदाधेषु' इति हैमीवचनात् । इति तौ तमी रात्रिर्दिवसौ वासरस्तयोरत्यये विरामे क्षये वा । प्रभाते हि. सौ. २०