________________
१५०
हीरसौभाग्यम्
सर्ग १० श्लो ० ११८-११९
લોકાર્થ હે પૃથ્વીપતિ, આચાર્ય મહારાજનાં માહાત્મ, સુવર્ણવણય દેહ અને અનન્ય કેટિની ધીરતાથી તિરસ્કૃત બનેલે સુરગિરિ–મેરૂપર્વત, અતિશય લજજાથી જાણે જડ બની ગયે ન હોય ! ૧૧૮
बाह्यं हन्ति तमो द्विधापि स नृणामस्तंगमी नास्तवा
_ विश्वस्यैव विबोधकृत्स जगतां कृत्स्नन्पृणन्कौशिकम् । गृहन्सर्वरसानसौ नवरसांश्चिन्वञ्जनास्तापय
छान्तानेष सृजन्प्रभो तदुपमां धत्ते क्व भास्वांस्ततः ॥११९॥
हे प्रभो स्वामिन, ततस्तस्मात्कारणात् भानुः सूर्यस्तदुपमा सूरिसाम्यं क्व कुत्र लभते । अपि तु न कुत्रापि । यतो हेतोः सूर्यो बाह्य चक्षुर्गोचर लोकगतं तमोऽन्धकार हन्ति पुनः सूरिद्वैिधापि बाह्य तमोऽज्ञान मौर्फा तथा बाह्य पापमपि व्यापादयति । तथा भानुः अस्तं नाशं गच्छतीत्येवं शीलो गमी। सरिस्तु न विद्यतेऽस्तः क्षयोऽभ्युदयभ्रंशो वा यस्येति नास्तवान् । सर्वदोदयीत्यर्थः पुनः किंभूतः । विश्वस्यैव भूलोकस्य विबोधकज्जागरकारकः उद्द्योतकर्ता वा सरिस्तु जगतां त्रयाणां भुवनानां प्रतिबोधविधाता । भास्वान्कि कुर्वन् । कौशिकमुलूकलोकं कृत्स्नन् पीडयन वासरे तस्यान्धीभवनात् । गुरुस्तु कौशिकं पुरंदर पृणन् अतिशायिसंयमगुणैः कृत्वा प्रीतिमुत्पादयन् । पुनः किंभूतः भानुमान् । सर्वानशेषान् रसान् भूमण्डलगतपानीयानि गृह्णन्नाददानः । 'ग्रीष्मे सहस्ररश्मिः भूतलगतर्वारसानादत्ते इति श्रुतिः । मुनीन्द्रस्तु सरसव्याख्यानविधानावसरे नवान नवीनान्नवसंख्याकान् श्रृङ्गारहास्यकरुणारौद्रवीरभयानकबीभत्सा तशान्ताभिधानान् रसांश्चिन्वन् पुष्टान्कुर्वन् । प्रायश्चरितानुवादेषु सर्वेऽपि रसाः समायान्ति न तथा सिद्धान्तव्याख्यानादिषु । पुनर्तिण्डः किं कुर्वन् । जनांल्लोकांस्तापयन् स्वकीयात्युष्णकिरणस्तापसंतापभाजः सृजन् । भवपरम्परापरिचितीकृतदुरन्तदुरितोदीतदुःसहदुःखदावानलज्वालाप्रतप्तानेकभविकलोकान् ध्वंसितापरसिद्धान्तवरुध्धजनराद्धान्तसंबन्धिबन्धुरस्त्वव्या. ख्यानप्रागल्भ्यप्रगुणानणुपयोधरामृतधाराधोरणीभिः शान्तान्निस्तापाछीतलान् शान्तरसयुतान् वा कुर्वाणः ॥
શ્લોકાર્થ ' હે સ્વામિન, સૂર્ય આચાર્યની સમાનતા કેમ પામી શકે ? અર્થાત્ ન જ પામી શકે. કારણ કે સૂર્ય બાહ્ય અંધકારને નાશ કરે છે જ્યારે આચાર્ય મનુષ્યનાં અજ્ઞાન