________________
सर्ग १० श्लो.. ११६-११८ ।
हीरसौभाग्यम्
१४९
રાજાઓ અને શેષનાગ-આ ત્રણેમાં વિભકત છે, અર્થાત્ એ ત્રણેને “ક્ષમાં (પૃથ્વી)ધર’ કહેવાય છે, પરંતુ આચાર્યમાં “ક્ષમાધર” (ક્ષમા ધારણ કરનાર) પદ સોંશે રહેલું જાણી, તેની પ્રાપ્તિ માટે જાણે શેષનાગ કૃષ્ણની ઉપાસના કરતે ન હોય ! ૧૧૬
गम्भीरभावं दधता जिनं च हृदा विगीतः प्रभुणा पयोधिः । पादारविन्दे किममुष्य लक्ष्मलक्षादुपास्त्यै स्थितवानुपेत्य ॥११७॥
पयोघिः समुद्रः अमुष्य सूररुपास्त्यै सेवायै । उत्प्रेक्ष्यते-लक्ष्मणः आकृतिरूपलाञ्छनस्य लक्षात्कपटादुपेत्यागत्य समीपे समेत्य पादारविन्दे सूरिचरणकमले किं स्थितवांस्तस्थाविव । किंभूतेन । प्रभुणा सूरीन्द्रेण गम्भीरभावं गाम्भीर्य तथा च पुनर्जिनम हन्तम् । चन्द्रसूर्यादीनां राजधानीषु प्रासादसदभावात्तत्र चत्वारः ऋषभ -चन्द्रानन-बारिषेण-वर्धमान-नामानः शाश्वतजिनाः सन्ति । जिनजातिवाचित्वादेकवचनम् । तथा लोकप्रवादेन कृष्णं समुद्रशायित्वाद्दाशार्हः । 'पुरुषोत्तमोऽब्धिशयनोपेन्द्रावनेन्द्रानुजः' इति हैम्याम् । तं दधता । अथ जिनशासनाधारत्वाज्जैनत्वाच्च जिन वीतरागं बिभ्रता । केन । हृदा हृदयेनान्तःकरणेन मध्येन च ।।
કલેકાર્થ
હૃદયમાં જિનેશ્વર ભગવંતને અને ગાંભીર્યને ધારણ કરનારા આ ચાર્ય દેવથી અપમાનિત બનેલે સમુદ્ર જાણે ચરણકમલમાં રહેલી આકૃતિ (રેખા) ના બહાને સેવાં કરવા માટે આચાર્યની પાસે આવીને રહ્યો ન હોય ! ૧૧
धरेश येनाधरितो महिम्ना सुजातरूपेण च धीरताभिः । महीधरो मन्युभुजामुदीतव्रीडाज्जडीभावमिवाबभार ॥११८॥
हे धरेश पृथिवीपते, येन सूरिणा महिना स्वमाहात्म्येन निजगौरवेण, तथा सुष्टु शोभन यज्जातं प्रकटीभूतं रूपसौन्दर्यातिशयः शोभनेन स्वर्णेन च, तथा धीरताभिः परीषदादि भिर्निष्प्रकम्पताभिः अनन्यसामान्यधैर्य र्वा अधरितः हीनीकृतस्तिरस्कृतः सन् मन्युभुजां यज्ञांशाभ्यवहारिणां सुराणां शैलः पर्वतो मेरुरुदीतः प्रादुर्भूतो यो व्रीडो लज्जा तस्मात् । 'उदीतमातकितवानशङ्कत' इति नैषधे । तथा 'व्रीडायां च भवेद्वीडो लज्जामात्रेऽप्यपत्रपा' इति शब्दप्रभेदे । वीडशब्दोऽकारान्तोऽप्यस्ति । 'स्मरवीडसमस्य यानया' इति नैषधे । जडीबभूव मूढः । विचेत इति यावत् । जातः ॥