________________
१४८
हीरसौभाग्यम्
सर्ग १० श्लो० ११५-११६
संमोहो महाज्ञानम् । 'समोहधूलीहरणे समीरम्' इति संसारदावस्तुतौ । स एव संतमसानि प्रसृमरान्धकाराणि तेषां संतत्या परम्परया सान्द्रितेषु नीरन्ध्रीकृतेषु पुनः किंभूतः । मानोऽहंकारः स एवावनीधरः पर्वतस्तस्य तटीभिः प्रपातस्थानकैः स्थपुटीकृतेषु विषमेषु विहितेषु । क इव । वर्त्मवेदीव यथा सदसन्मार्गवेत्ता पुमान् पथिषु विमोहवतां मार्गामार्गदिगपदिक्शुद्धिविरहितानां पथिकलोकानां शिवस्य निरुपद्रवरूपस्य मार्गस्याख्याता वक्ता भवेत् । महापर्वतादिगह्वरैरन्धकारैर्बहलीभूतेषु विषमेषु च ॥
કાર્થ હે સ્વામી! જેમ કેઈ સન્માર્ગને જાણકાર પુરૂષ પથિકે ને નિરૂપદ્રવી સરલ માર્ગ બતાવે તેમ આચાર્ય અતિનિબિડ અજ્ઞાનરૂપી અંધકારની પરંપરાથી ભયંકર તેમ જ જેમાં અહંકારરૂપી પર્વની વિષમભૂમિ છે, તેવા સંસારરૂપી વિષમમાર્ગ વ્યાહિતમૂઢ બનેલા (ભૂલા પડેલા) જગતના છને અનંત સુખમય મોક્ષમાર્ગ કહેનારા છે૧૧પ
अर्थात्क्षमाधरपदं क्वचिदप्रवृत्तं
यस्यात्मनस्तु गिरिभूपतिभिर्विभक्तम् । ज्ञात्वा तदाप्तुमिव शीलति शाङ्ग पाणिं
पर्यङ्कमूर्तिधरकुण्डलिचक्रवर्ती ॥११६॥
पयङ्कस्य पल्यङ्कस्य मूर्ति शरीरं धरतीति बिभर्तीति तादृशः कुण्डलिनां भोगिनां चक्रवर्ती सार्वभौमः शेषनागेन्द्रः शाङ्गपाणिं केशवं शीलति सेवते । 'शेषशय्याशायी कृष्णः' इति श्रुतिः । उत्प्रेक्ष्यते-तत्सरेः स चासौ हीरविजयनामा सरिराचार्यश्च तस्य क्षमाधरपदम् आप्तुलब्धुमिव । किं कृत्वा । यस्य सूरेरर्थात्परमार्थवृत्त्या क्षमाधरपदमबैतभावेन क्वचिदन्यत्र पुरुषादावप्रवृत्तं कुत्रचित्कदाचित्केनापि न प्राप्तम् । तु पुनः आत्मनः स्वस्य शेषनागस्य तु क्षमाधरपदं गिरिभिः कुलशैलादिशिलोच्चयः तथा भूपतिभिर्भूपालविभक्त विभागीकृतम् । गिरयो भूपालाश्च क्षमाधराः शेषनागोऽपि क्षमाधरः इति न किमपि । शेषः । सरिसदृशस्त्वन्यः कोऽपि त्रैलोक्येऽपि क्षमाधरो नास्ति । क्षमा शान्तिः क्षितिश्च विज्ञाय ज्ञात्वा ।
લોકાથે આચાર્ય મહારાજનાં “ક્ષમાધર” પદની પ્રાપ્તિ માટે પર્યક મૂર્તિ (શરીર) ને ધારણ કરતે શેષનાગ વિષ્ણુની ઉપાસના કરે છે, કારણ કે “ક્ષમાધર” પદ પર્વ,