________________
हीरसौभाग्चम्
[सर्ग ९ श्लो०११-१३
गमिष्यतीत्येवंशीलो गमी । 'भविष्यति गम्यादयः' । गम्यादीनामुपसंख्यानणिनि वा वृद्धियति' यदुक्त नैषधे–'साधोरपि स्वः खलु गामिनाधोगमी स. तु स्वर्गमितः प्रयाणे' इति । साधनिका तु प्रागुक्ता विकल्पेन वृद्धिर्गामी गमी । क इव । भास्वानिव । यथा भास्करो विष्णोः पदे गगने अभ्युदयं गच्छति ॥ इति गुरोदेवीप्रश्नः ॥
કાર્ય તે હે કમલનયના શાસનદેવી ! જેમ સૂર્ય આકાશને અભ્યદય કરે છે તેમ આ શિષ્યોમાંથી કયો શિષ્ય મારી પાટને અભ્યદય કરનાર થશે ! અર્થાત્ જગવિખ્યાત થશે ! ૧૧૫
एवमालपिता तेन तं सुरी पुनरूचुषी ।
प्रावृषेण्यमिवाम्भोदं नभोम्बुपनितम्बिनी ॥१२॥ तेन हीरविजयसूरिणा एवममुना प्रकारेण आलपिता भाषिता भाविपट्टधराभिधान पृष्टा सती सुरी निजरी पुनर्वितीयवारमूचुषी भाषितवती । जगादेत्यर्थः । केव । नभोम्बुपनितम्बिनीव नदीह्रदनिपानादिनीरमनीहमानः केवल नभस आकाशाधनाघननिर्मुक्तमम्बु पिबतीति नभोम्बुपो वप्पीहस्तस्य नितम्बिनी प्रमदा चताकी तेन जीवनदानादिना जगत्प्रसिद्धनान्मेघेन गजितेन गभीरगरिवेणालपिता वादिता सती प्रावृषेण्यं वर्षाकालसंबन्धिनम् । 'प्रावृषेण्य पयोवाहं विद्युदैरावताविव' इति रघुवंशे । तथा प्रावृष एण्यत्प्रत्ययः इति प्रावृषेण्यनिष्पत्तिः । अम्भोद जलधर प्रति ब्रवीति ॥
કલેકાર્થ જેમ ચાતકી મેઘને ગરવ સાંભળીને, વર્ષાઋતુ સંબંધી ઉચ્ચારણ કરે છે ! તેમ હીરવિજ્યસૂવિડે આ પ્રમાણે પૂછાયેલી દેવી પુનઃ બેલી ૧રા
आस्ते श्रीजयविमलो यस्तेऽन्तेवासिवासवः ।
स ते दम्यो रथस्येव धुरं पट्टस्य धास्यति ॥ १३ ॥ हे प्रभो, यस्ते तवान्तेवासिनां शिष्याणां मध्ये वासव इव वासवो मघोनः सदृशः अखिलशिष्यशिखारत्नं श्रिया शोभया युक्तो जयविमल इति नामा वर्तते स जयविमलप्रज्ञांशः ते तव पट्टस्य धुर धास्यति धारयिष्यति । क इव । दम्य इव । यथा प्रथमवया गौरथवा प्रौढीभूतो वत्सो वत्सतरः । लोके 'गोधो' इति प्रसिद्धः । दम्यो रथस्य धुर दधाति । 'गुवीं धुर' यो भुवनस्य पित्रा धुर्येण दम्यः सदृश बिभर्ति इति रघौ ।
લોકાઈ
હે પ્રભે, આપના શિષ્યોમાં ઈન્દ્ર સમાન એવા શ્રીજયવિમલમનિ પ્રૌઢ વાછરડો (દમ્ય) રથની ધુરાને વહન કરે તેમ આપની પાટની ધુરાને વહન કરશે. ૧૩