SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सर्ग ९ श्लो ० १४-१६ हीरसौभाग्यम् त्वया विश्राणिता देव विधिना स्व पदेन्दिरा । वाधिना विष्णुनेव श्रीश्चिरमेतेन रंस्यते ॥१४॥ हे देव हे भट्टारक, त्वया प्रभुणा स्वपदेन्दिरा निजपट्टलक्ष्मीविधिना पूर्वाचांसें रुक्तकृतप्रकारेण विश्राणिता प्रदत्ता सती एतेन जयविमलप्रज्ञांशेन सम चिर बहुकाल यावत् रस्यते क्रीडिष्यति । केव । श्रीरिव । यथा वार्धिना क्षीरनीरनिधिना विधिना वेदोक्तप्रकारेण विश्राणिता वितीर्णा पाणौ ग्राहिता श्रीनिजनन्दना लक्ष्मीविष्णुना स्वप्रेयसा साकं चिरं रमते ॥ હે દેવ, જેમ વિધાતાએ અર્પણ કરેલી સમુદ્રપુત્રી લક્ષ્મી વિષ્ણુ સાથે ચિરકાલ રમે છે તેમ આપે અર્પણ કરેલી પટ્ટલક્ષ્મી વિમલ મુનિ સાથે ચિરકાલ પર્યંત ક્રીડા - ४२. ॥ १४ ॥ ___ तं गुणैरप्रतीकाशं त्वदगुणश्रीः श्रयिष्यति । वल्ली विवर्धमानेब स्मयमानमहीरुहम् ॥ १५ ॥ हे सरिपुरंदर, त्वगुणश्रीः तव गुरुपरम्परायाता तपागच्छलक्ष्मीर्गुणैः शमदमार्जवमादवज्ञानादिभिरप्रतीकाशमनन्यसामान्य त जयविमल श्रयिष्यति सेविष्यते । केव । वल्लीव । यथा विवर्धमाना प्रावृषेण्यप्रवर्षत्पयोधराभिषेकप्रसभप्रवृद्धिं प्राप्नुवती लता स्मयमानं विकसितं पल्लवपत्रपुष्पफलकलापकलित महीरुहं पादप श्रयते भजते ॥ अर्थ હે સૂરિપુરંદર, વર્ષાઋતુના મેઘથી વધતી જતી લતા નવપલ્લવિત વૃક્ષને આશ્રય લે છે, તેમ આપની પરંપરાથી આવેલી તપાગચ્છની લક્ષ્મી, શમદમાદિગુણથી અસામાન્ય એવા વિમલમુનિને આશ્રય કરશે. . ૧૫ पट्टधुर्येऽङ्गजे राज्ञा युवराजे इवोर्जिते । त्वयास्मिन्निर्मिते कापि भाविनी शासनोन्नति : ॥१६॥ हे हीरविजयसूरे, त्वयास्मिन जयविमलप्रज्ञाने पट्टधुर्ये गणभारधुरीणे निर्मिते कृते काप्य तवैभवा जगदाश्चर्यकारिणी शासनस्य श्रीजिनमतस्योन्नति विनी भवित्री। केनेव । राज्ञेव । यथा भूमीपतिना ऊर्जिते प्रबलबले युवराजे पट्टधुये निजराज्यधुराधुरंधरे विहिते सति शासनानामुपलक्षणात पुरनगरग्रामजनपदानां न्यायविधिं विदधति सति समुन्नतिर्भवति । 'दीयतां दशलक्षानि शासनानि चतुर्दश' इति विक्रमार्क दानपत्रे श्लोकः । अथवा शासनस्याज्ञायाः काप्यद्वैता उन्नतिजायते । कोऽप्याज्ञां नोल्लघनयतीत्यर्थः ॥ साथ હે સુરિદેવ ! જેમ રાજા પિતાના પ્રબલ પરાક્રમી પુત્ર યુવરાજને રાજ્યની લગામ
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy