________________
१४४
सौभाग्यम्
विश्राणयत्यमतां क्षितिकान्त बोधिबीजं निधिं जनयितेव निजाङ्गजानाम् । सिद्ध: स्वसिद्धिमिव भक्तिमतां विनीतान्तेवासिनामिव गुरुः परमात्मविद्याम् ॥१०९
[ सर्ग १० श्लो० १०९-११०
हे क्षितेर्भू भामिन्याः कान्त वल्लभ, असुमतां भव्यजन्तूनां बोधिबीजं सम्यक्त्वं विश्राणयति ददाति । क इव । जनयितेव । यथा पिता निजाङ्गजानां स्वनन्दनानां निधि निधानं दत्ते प्रयच्छति । पुनः क इव । सिद्ध इव यथा विद्यासिद्धिभृद्भक्तिमतां स्वसेवासक्तानां स्वस्यात्मनः सिद्धिं मन्त्त्रादिसामर्थ्य दत्ते । पुनः क इव । गुरुरिव । यथा सम्यग्धर्मोपदेष्टा विनीतानां विनयकलितानां स्वादेशवराव दानामन्तेवासिनां शिष्याणां परमात्मविद्यामध्यात्माम्नायं वितरति ॥
શ્લાકા
કે પૃથ્વીપતિ, જેમ પિતા પેાતાના પુત્રોને નિધાન આપે, વિદ્યાસિદ્ધપુરૂષ ભકતભજનને જેમ સિદ્ધિઓ આપે, તેમજ ગુરૂ જેમ વિનયી શિષ્યાને પરમાત્મ વિદ્યાના આમ્નાય બતાવે, તેમ હીરવિજયસૂરિ ભવ્ય પ્રાણીઓને એધી બીજ (સમ્યકત્વ) નું દાન रे छे. ॥१०५॥
मानोपमानममुना गमितः क्षितीन्दो जेतुं पुनः प्रतिघतस्तमरातिमिच्छन् । साहाय्यकं किमु चिकारयिषुः स्वकीयं नक्तंदिनं वितनुते जगतामुपास्तिम् ॥ ११०॥
हे क्षितीन्दां वसुधासुधांशो, मानोऽभिमानो गर्वः अपमानमर्थात्तेन सूरिणैवावगणनां गमितः प्रापितः सन् पुनर्व्याघुट्य प्रतिघात्कोपात्तं सूरिमेवात्मारातिं स्ववैरिणं जेतुमभिभवितुमिच्छन् वाञ्छन् सन् जगतां त्रिभुवनजनानामुपास्ति सेवां वितनुते विदधाति । कथम् । नक्तंदिनं रात्रिंदिवा । उत्प्रेक्ष्यते - स्वकीयमात्मीयं साहाय्यक साहाय्यं चिका रयिषुः कारयितुमिच्छुरिव !!