________________
सर्ग १० श्लो ० १०७-१०८]
हीरसौभाग्यम्
१४३
દુર્ગતિને સંયમની આરાધનાથી દૂર કરી, તેમ જ જેમ સૂર્ય આકાશનું ઉલ્લંઘન કરે છે તેમ આચાર્યે ભવની પરંપરાનું ઉલ્લંઘન કર્યું ! ૧૦૭
वाचंयमावनिभृतः शमनामसाम
योनिप्रतीपकलिताईमनोगुहायाम् । स्वालम्भभीलुक इवोत्कटकोपकुम्भी
कर्तुं प्रवेशमपि नो प्रभविष्णुरासीत् ॥१०८॥
हे सकलराजचक्रचूडामणे, वाच वाणी यमयन्ति सावधव्यवहारे प्रवर्तमानां नियन्त्रयन्तीति वाचंयमा वाग्गुप्तिधारका । वाक्कथनेन मनःकायगुप्ती समेते । मध्यग्रहणेन आद्यन्तयोग्रहणं कार्यम् । 'तुलादण्डस्येव' इति न्यायेन । तथा 'ढक्कायसमारम्भे' इत्यत्र समारम्भ इति मध्यमपदग्रहणेन संरम्भारम्भयोराधन्तयोः पदयोग्रहणम् । 'तुलादण्डन्यायेन' इति श्रीरत्नशेखरसूरिपादाः श्राद्धप्रतिक्रमणसूत्रवृत्तौ प्रोचुः । तेषां संगुप्तित्रयधारिणां साधूनां तेषु वावनिभृत्पार्थिवः पर्वतश्च तस्य शमः प्रशान्तरसः स एव नामाभिधानं यस्य तादृशाः । सामवेदाद्योनिरुत्पत्तिर्यस्य । श्रूयते च-नारायणनाभ्यम्भोरुहकुहरकुटीरमधिशयानस्य वेदविद्यानिगदतो भगवतः पितामहस्य वृहद्थान्तरविकीर्णाभासनामानि गायतः सामश्लोकरसनिष्पन्दादुदपद्यन्त ऐरावतसुप्रतीकप्रभृतयोऽष्टौ दिग्गजेन्द्रास्तेभ्योऽभ वन् भद्रमन्दमृगमिश्रजातयो गिरिचरनदीचरोभयचारिणः । प्रसिद्धं चैतत् सामजा गजाः' इति चम्पूकथायाम् । तस्य तेषां वा प्रतीपः शत्रुः केसरी तेन कलितोऽङ्क उत्सङ्गो यस्यास्तादृशीम् । मनः चित्तमेव गुहा कंदरा तस्यामुत्कटो मदोद्धतः कोपः क्रोध एव कुम्भी हस्ती प्रवेशमपि कर्तुं प्रभविष्णुः समर्थो नासीत् न बभूव । उत्प्रेक्ष्यते-स्वस्याः त्मन आलम्भो व्यापादनं तत्र भीलुको विभ्यदिव ॥
શ્લેકાર્થ
હે સ્વામિન! વાચંયમ-શ્રમણરાજ શ્રી હીરવિજયસૂરિની મનરૂપી ગુફામાં, કે જયાં શાંતરસરૂપી સામવેદમાંથી જેમની ઉત્પત્તિ થઈ છે (ચપૂ કથામાં હાથીઓને સામવેદજ સામવેદથી ઉત્પન્ન થયેલા કહ્યા છે.) તેવા હાથીઓના શત્રુ સિંહથી જેને મધ્યભાગ યુક્ત છે, તેમાં મદદ્ધત એ ક્રોધરૂપી હસ્તિ પ્રવેશ કરવા માટે પણ સમર્થ થઈ શકે નહીં. તે જાણે પિતાને ભય લાગી ગયે ન હોય ૧૦૮