________________
हीरसौभाग्यम् [ सर्ग १० श्लो० १०६-१०७
सूक्ष्मस्थान ं तस्य मध्ये विचाले विवेश प्रविष्टवान् । नैयायिकानां मते हि मनसः परमाणुत्वमुच्यते । यथा नैषधे- 'यत्पथावधिरणुः परमः सा योगिधीरपि न पश्यति साक्षात् । बालया निजमनःपरमाणौ ह्रीदरीशयहरीकृतमेनम् ॥' इति । किंभूतः । विवशं व्याकुलत्वमाह - किं कृत्वा । निजस्यात्मनो मनश्चित्तमेव सदन वाससौधं तस्माद्वहिबप्रदेशभूमौ नीत्वा निःसार्य कर्षयित्वा । निष्कास्येत्यर्थः । अरातिभावात्प्रतिभव दुःखदायकत्वेन वैरित्वाद्विभुना सूरिणा निहन्यमानं मार्यमाणं स्वमात्मानं विभाव्य दृष्ट्वा विज्ञाय वा ।
१४२
શ્લાકા
રાગ પ્રત્યેની શત્રુતાવાળા આચાય વડે પોતાના મનરૂપી ઘરમાંથી બહાર કાઢી મૂકાયેલા અને આચાય વડે પેાતાને હણાતા—જાણીને, રાગ (સાંસારિક સ્નેહ ) જાણે ભાગતા ભાગતા અન્ય જનેના હૃદય—પરમાણુમાં પ્રવેશી ગયેા ! ( નૈયાયિકાએ મનને परमाणु भान्युं छे.) ॥१०६॥
एतेन दुर्गतिरशोष्यत भूपमुख्य ग्रीष्मोष्मणेव विगलज्जलपङ्कपक्तिः । उल्लङ्घयते स्म भवषद्धतिरप्यनेन पाथोजिनीप्रियतमेन यथा वीथी ॥ १०७॥
हे भूपमुख्य सकलराजचक्रचक्रवर्तिन, एतेन सूरिणा दुर्गतिः सम्यनियमयमसंयमाराबनतो दुष्टा अनन्तदुःखदायका नरकतिर्यग्लक्षणा कुगतिरशोष्यत निषिद्धा निष्ठापिता स्वतः । केनेव । ग्रीष्मोष्मणेव यथा निदाघदाघेन विगलन्ति तापातिरेकान्निर्यान्ति विशुष्य गच्छन्ति जलानि पानीयानि यस्यास्तादृशी पङ्कानां जम्बालानां पक्तिः श्रेणी शोष्यते । अपि पुनरनेन गुरुणा भवपद्धतिः भाविनी भूतोपचारात्संसारमार्ग उलङ्घयते स्म अतिक्रान्तः । केनेव । पाथोजिनी प्रियतमेनेव । यथा पद्मिनीप्राणनाथेन सूर्येण अभ्रवीथी गगनपदवी मेघमाला वा उल्लङ्घयते ॥
શ્લેાકા
હું સકલ રાજચક્ર ચક્રવતી, ગ્રીષ્મ ઋતુના તાપથી જેનું જલ શાષાઇ ગયું છે તેવા કાદવ જેમ સુકાઈ જાય તેમ આચાર્યે અનંત દુ:ખદાયી એવી નરક તિય ચ રૂપ