SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सर्ग १० श्लो० १०५-१०६] हीरसौभाग्यम् १४१ संक्रान्तशक्रबलिधामधरापदार्थ___ सार्थे जिनागमकपोल्लिखितान्तराले । संक्रान्तिरापि न कदापि हृदात्मदर्शे सूरीश्वरस्य किमनङ्गतयाङ्गजेन ॥१०५॥ सूरीश्वरस्य हृत् हृदयमेवातिस्वच्छत्वादात्मदर्शो दर्पणस्तत्र अङ्गजेन कंदर्पण कमनः कलाकेलिः । 'अनन्यजोऽङ्गजः' इति हैम्याम् । कदापि कस्मिन्नपि काले स्वापजाग्रदवस्थातारुण्यतरुणीदर्शनादिसमयेऽपि संक्रान्तिः संक्रमणं प्रतिबिम्बं प्रवेशं च नापि न प्रापे । यस्य मनसि कस्मिन्नपि प्रस्तावे स्मरोद्रेको नासीदित्यर्थः । उत्प्रेश्यते-अनङ्गतया अशरीरत्वेनेव संक्रामणं तु देहस्यैव स्यात्तस्य तु स एव नास्ति तस्मात्कुतः संक्रान्तिरिति । किंभूते हृदात्मदर्शे । संक्रान्ताः प्रतिबिम्बिताः शक्रस्येन्द्रस्य बलेबलिनाम्रो दानवेन्द्रविशेषस्य धानोमन्दिरयोः स्वर्गपातालयोः । तथा धराया निखिलमहीमण्डलस्य च पदार्थानां घटपटस्तम्भकुम्भदानवदानवारिमानवाद्यनेकवस्तूनां सार्थाः समूहा यत्र । प्रतिबिम्ब च निर्मले वस्तुनि स्यात् । अत एव पुनः किंभूते हृदात्मदर्श । जिनागमो जैनसिद्धान्तः एव कषः शाणायं तेनोल्लिखितमुत्तेजितं देदीप्यमानं निर्मितमन्तराल मध्य यस्य । શ્લેકાર્થ જેના હૃદયરૂપી અરિસામાં સ્વર્ગલેક, પાતાલલાક. અને મધ્યલોકના ઘટપટ આદિ પદાર્થોને સમૂહ સંક્રાન્ત થયા છે, તેમ જે જૈન સિદ્ધાંતરૂપી સરાણથી દેદીપ્યમાન જેને મધ્યભાગ પ્રકાશિત થયા છે તેવા હીરવિજયસૂરિના હૃદયરૂપી દર્પણમાં કામદેવનું પ્રતિબિંબ ક્યારે પણ પડી શકયું નહી. (અર્થાત્ પ્રતિબિંબ શરીરધારીનું હેય પરંતું કામદેવ તે અશરીરી છે તે કામદેવનું પ્રતિબિંબ ક્યાંથી પડી શકે ?) ૧૦પા नीत्वा बहिर्निजमनःसदनानिहन्य. मानं विभाव्य विभुना स्वमरातिभावात् । नश्यन्निवान्यजनहृत्परमाणुमध्ये रागो विवेश विवशाशयतादधानः ॥१०६॥ रागोऽनुरागः सांसारिकः स्नेहः । उत्प्रेक्ष्यते-नश्यन्पलायमानः सन् अन्येषां खरिव्यतिरिक्तानामितरेषां जनामां हृत् हृदयमेव परम उत्कृष्टो योऽणुः सर्वलघुरति
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy