________________
सर्ग १० श्लो० १०२-१०३]
हीरसौभाग्यम्
१३९
जातः । संसारं निरस्य मोक्षमार्ग संयमे तस्थिवानित्यर्थः । किंभूतात्तस्मात् । पङ्कः पापमन्तरे मध्ये यस्य । केवलपापमयादित्यर्थः । 'अहः कलङ्कमध पङ्कः' इति हैम्याम् । किमिव । पुण्डरीकमिव । यथा सिताम्भोज पुण्डरीक पङ्कः कर्दमोऽन्तरे मध्ये तले यस्य तादृशात् घनरसात्सलिलात्पृथक् भवति । स कः । यस्मिन् भवाम्बुनिधौ संसारसमुद्रे वृजिनैः पापकर्मभिरवगूढा आश्लिष्टा व्याप्ताः पापभरभारिताः सन्तः परे इतरे वहुल. संसारिणो जना लोका विगतो विशेषेण यातोऽवधिः सीमावसानं यत्रेति क्रियाविशेषणम् । अनन्तानन्तसमयमित्यर्थः । लीनास्तल्लीनमानसा वसन्ति सतिष्ठन्ते । क इव । मीनव्रजा इव । यथा मत्स्याः समुद्रे निमग्ना एव तिष्ठन्ति ॥
શ્લોકાથ
(હે સ્વામિન, ) જે સંસાર સમુદ્રમાં પાપકર્મોથી વ્યાસ અનંત છે. મોની જેમ લીન બનીને રહ્યા છે, તે સંસાર સાગરથી આ આચાર્ય જુદા થયા છે. (અર્થાત મોક્ષમાર્ગે સંયમમાં રહેલા છે, ) જેમ કમલ જલ અને પંક (કાદવ) માં ઉત્પન્ન થાય છે પરંતુ જલ અને કાદવથી ભિન્ન રહે છે, તેમ આચાર્ય સંસારથી વિરક્ત બનીને २॥ छे.) ॥१०२॥
संत्रस्यदेणरमणीदृगपागरगो
त्सङ्गप्रणतितकटाक्षपरम्पराभिः । चेतस्यविश्यत मुमुक्षुमणेन तस्या
लोकस्य मध्य इव चण्डरुचीरुचीभिः ॥१०३॥ तस्य हीरविजयस्य मुमुक्षुमणेः श्रमणमाणिक्यस्य चेतसि चित्ते संत्रस्यन्तीनां लुब्धकादीनामाकस्मिकभयाकुलतया पलायमानानामेणरमणीनां सारङ्गाङ्गनानां दृगिव चटुललोचनमिव दृक् दृष्टिर्यासां तासाम् । चपलविलोचनानां स्त्रोणामित्यर्थः । दृशां नयनानामपाङ्गयोर्नेत्रप्रान्तयोरेव रङ्गयो तनस्थानकयोरुत्सगे क्रोडे प्रणतिताभिस्ताण्डवं कारिताभिः कटाक्षाणामक्षिविकूणितानां परम्पराभिर्धारणीभिर्नाविश्यत न प्रविष्टम् । काभिरिव । चण्डरो(रु)चीरुचीभिरिव । यथा तीव्रकिरणस्य भास्करस्य रुचिभिः कान्तिभिः । रुचीशब्दो दीर्घइकारान्तोऽप्यस्ति । यथा नैषधे-'वरुणग्रहिणीमाशामासादयन्तममुं रुचीनिचयमिव' इति । 'नो चेत्ता चण्डरोचीरुचिरुचिरुची' इति जिनशतकेऽपि । अलोकस्य जीवाजीवादीनामनाधारक्षेत्रस्य मध्ये विचालेन प्रविश्यते । अलोकेषु सूर्यादीनां न प्रकाशः । परशासनेऽपि दृश्यते । यथा रघुवंशे-'सोऽहमिज्याविशुद्धात्मा प्रजालोपनि