________________
हीरसौभाग्यम्
सर्ग १० श्लो० १००-१०२
ભક્ત હોય કે અભકત હોય-નિક હોય–કે પ્રશંસક હોય તે દરેક ઉપર સમાનરૂપે રહેલી છે ૧૦૦૧
संध्याभ्रविभ्रममिवाध्रुवभावभाज
मुद्भावयन्भवमभङ्गुरतां च सिद्धः। आवेदयत्यसुमतः कुलयातयामो वंश्यानिवायतिहितः स हिताहितार्थम् ॥१०१
स हीरषिजयसूरिरसुमतः सकलभविकजन्तुन् प्रति हितानिहपरलोकेष्टान् । तथा अहितान् द्वयोरपि लोकयोरनिष्टविधायिनोऽर्थान् भावान्पदार्थान्वा आवेदयते कथयति । क इव । कुलयातयाम इव । यथा गोत्रवृद्धः पुमान वंश्यान्निजपुत्रपौत्रादिकान् प्रति हिताहितार्थानावेदयते शुभाशुभान भावान् कथयति हितमहितं च वक्ति। मूरिः किं कुर्वन् । संध्याभ्राणां संध्याकालसंजातविविधनीलपीतरक्तादिरागकलिताभ्रकाणां दिवसा. घसानपितृ (स) प्रभवद्विविधरागाणां विभ्रमं विलासमिव । अध्रुवभावभाजमशाश्वतपरिणामजुष भवं संसारमुद्भावयन् प्रकटीकुर्वन् । च पुनः किं कुर्वन् । सिद्धेमहानन्दनगर्या अभङ्गुरतामनश्वरत्वं शाश्वतसुखानुषङ्गितां प्रकटयन प्रकाशयन् । अर्थाजनानां पुरस्तात् । अत एव सूरिर्यातयामश्च किंलक्षणः । आयतावुत्तरकाले इहपरलोकादौ सांसारिकसर्वव्यवहारादौ च हितः शुभचिन्तकः पथ्यवक्ता च ॥
બ્લેકાર્થ
હે સ્વામિન, ભવ્યજીની આગળ સંધ્યાના રંગની જેમ સંસારના સ્વરૂપની ક્ષણભંગુરતા અને મોક્ષની અવિનશ્વરતાને બતાવતા હીરવિજયસૂરિ કુલવૃદ્ધ પુરૂષની જેમ ભવ્ય પ્રાણીઓને ભાવી શુભાશુભ ભાવને કહેનારા છે. ૧૦૧
यस्मिन्गतावधि वसन्ति परे निमग्ना
मीनवजा इव जना वृजिनावगूढाः । तस्माद्भवाम्बुनिधितः स पृथग्बभूव
पकान्तराद्धनरसादिव पुण्डरीकम् ॥१०२॥ स सरिस्तस्मादवाङ्मनसगोचरीभूतपूर्वपारादनन्तानन्तपुद्गलपरावर्तिनिवर्तननृत्तसूत्रधारा संसारो देवागाधापारत्वेनाम्बुनिधिः समुद्रस्तस्मात्सकाशात् पृथक बभूव भिन्नो