________________
-
हीरसौभाग्यम्
सर्ग १० श्लो ० ९८-९९
अस्माभिरीशितरदृश्यत दर्श नेषु
सर्वेषु शेखर इवाखिलधार्मिकाणाम् । एकः स हीरविजयाभिधसूरिराजः क्ष्मापालपडितषु भवानिव भूमिपीठे ॥९८॥
हे ईष्टे सर्वत्र पृथिवीपीठे विजयविघानादौ समर्थीभवतीति ईशिता तस्य संबोधनम् हे ईशितः स्वामिन, अस्माभिः श्रीमत्सदस्यैः भूमिपीठे निखिलमेदिनीमण्डले सर्वेषु समस्तेषु जैनबौद्धशैवसांख्यवैशेषिकनास्तिकलक्षणेषु षटूसु दर्शनेषु शासनेषु । अथ वा भादृप्राभाकरजैमनीयादिषु षड्दर्शनानां शाखाप्रशाखाभूतेष्वपि । सोऽसाधारणगणितानणुगुणगणैर्जगत्त्रये विख्यातः एको न द्वितीयो यस्याद्वितीयः हीरविजय इत्याभिधा नाम यस्य तादृशः सूरिष्वाचार्येषु त्रिंशत्प्रतिरूपादिषड्गुणितषत्रिंशद्गुणै राजते दीप्यते इति राजा एतावता श्रीहीरविजयसूरिषुरुहूतोऽदृश्यत दर्शनगोचरीचक्रे नापरः । क इव । भवानिव । यथा निखिलानां मुगलानां प्रतिष्ठानानां 'पठाण' इति प्रसिद्धानां विविधजातितुरुकाणां राजपुत्राणां श्मापालानां पृथिवीपतीनां पडितषु मण्डलीषु भवान् साहीनामपि साहिईश्यते उत्प्रेक्ष्यते-अखिलानामिदानींतनयुगजन्मनां समस्तानां धार्मिकाणां धर्मकर्तृणां शेखरोऽवतंस इव मुकुटो वा ॥
લેકાર્થ હે સ્વામિન, આ પૃથ્વી પર સર્વ રાજાઓની પંક્તિમાં જેમ આપ એક જ છે. તેમ સવ દર્શઓમાં (જૈન બૌદ્ધ, સાંખ્ય, વશેષિક, શૈવ અને નાસ્તિક આદિ છએ દર્શનમાં અથવા ભટ્ટ, પ્રભાકર જૈમિનીય, આદિ છ દર્શનની શાખા પ્રશાખાઓમાં) અસાધારણ ગુણેના ભંડાર એવા અને સર્વધાર્મિકમાં મુગુટ સમાન એકજહીરવિજય નામના આચાર્યને અમે જોયા ૯૮
अथ हीरविजयसूरिगुणवर्णनप्रारम्भः
अध्याप्य देवगुरुणा स्वविनेयवर्ग:
स्वख्यातये प्रतिभुवं प्रहितैरिवैतैः। सभ्यैर्गुणान्कवयितुं कतिचित्तदीया
प्रारभ्यते स्म वसुधाधिपतेः पुरस्तात् ॥९९॥