________________
-
१३२
हीरसौभाग्यम्
[सर्ग १० श्लो० ९२-९३
पुनः किंभूताः । जिष्णुत्वेन सुभटतया शौर्येण जयनशीलतया रमा लक्ष्मीः तया अभिरामा गजाश्वग्रामादिबहुबिभूतिभ्राजिनः। 'जिते च लभ्यते लक्ष्मीः' इति वचनात् । शत्रु जैत्राणां सुभटानां हि प्रायः स्वामिनो ग्रामान्ददते इति रीति: । के इव । नीरेशितार इव । 'वानंदीशः सरस्वान्, इति हैम्याम् । वारिपति दीपतिश्चेति संयोगाद्वा । यथा समुद्रा जिष्णुरमाभ्यां कृष्णतत्पत्नीभ्यां कृत्वा मनोज्ञाः । समुद्रशायी कृष्णः । लक्ष्म्यास्तज्जायात्वेन सांनिध्यम् । पुनः किंभूताः । वदान्यभावं दानशौण्डतां प्रकर्षण दधतो बिनतः । के इव । श्रीदा इव । यथा धनदा दानशीलत्वं दधते । पुनः किंभूताः। वागधीशाः । प्रगल्भवाग्विलासाः। 'बागिशो वाक्पतौ' इति हैम्याम् । क इव । धिषणा इव । यथा सुराचार्याः । 'धिषणः फाल्गुनीभवः । गीहत्योः पतिः' इति हैम्याम् । वाचामधीशा भवन्ति ।
લોકાથ
અકબરની સભામાં સભાસદે શોભે છે. જેમ આકાશ શુક્ર અને બુધની શોભા ધારણ કરે છે તેમ કવિતાથી અને પાંડિત્યથી સભાની વિભૂષા કરવા તેમજ જેમ સમુદ્ર વિષ્ણુ અને લક્ષ્મીવડે મનહર છે તેમ શત્રુને જય કરવાથી રાજા દ્વારા ઈનામમાં પ્રાપ્ત થયેલા હાથી, ઘોડા, ગ્રામ આદિ લફનીવડે શોભાયમાન અને કુબેરની જેમ દાનેશ્વરી એવા સભાજને વડે અકબરની રાજસભા શોભે છે. કેરા
स्वस्त्रैणजैत्रमणिकल्पितशिल्पच च
त्पाञ्चालिकापहतलोचनचित्तवृत्तिः। पूर्वापराम्बुनिधिसीममहीमघोनो
या संसदाप सुषमां वलभित्सभेव ॥ ॥९३॥
पूर्वापराम्बुनिधी प्राच्यप्रतीच्यसमुद्रौ सीमा अवसानं मर्यादा यस्यास्तादृश्या मह्या भूमेमघोनो वासवस्य संसत् सभा सुषमां सातिशायिशोभां प्राप लेभे । केव बलभित्सभेव । यथा वलनामान दानवेन्द्र भिनत्ति हन्तीति बलभित्पुरंदरस्तस्य सभा पर्षत सधर्मानाम्री सुषमामाप्नोति । किंभूता । स्वः स्वर्गस्य स्त्रीणां समूहः स्त्रैणं सुराङ्गनाग. णस्तस्य जैत्रीभिर्जयनशीलाभिः मणिभिविविधरत्नैः कल्पित रचितं शिल्पं विज्ञानं तेन चञ्चन्तीभिः शोभमानाभिः । अथवा मणिभिनिर्मित विज्ञानं यासां तथा चञ्च न्तीभिः पाञ्चालिकाभिः पुत्रिकाभिरपहृता स्वायत्तीकृता स्वासु एकताना विहिता लोचनानामर्थाद्विलोककान्तानयनानां मनसां चेतसां च वृत्तिापारो यया सा ॥ इत्यकब्बरसभावर्णनम् ॥