SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सर्ग १० श्लो० ९१-९२] हीरसौभाग्यम् १३१ च पुनः संसदि सभायां क्वचन प्रदेशे चतसृणां प्राची-अवाची-प्रतीची-उदीची लक्षणानां दिशां हरितामीशाः स्वामिनो लोकपालाः राजानो यमकब्बरं शीलन्ति । कमिव । यथा शच्या इन्द्राण्याः प्रियतमं प्राणनाथं पुरंदरं सोमयमवरुणवैश्रवणाभिधानाश्चतुर्दिङ्नायका लोकपालाः शीलन्ति । च पुनः क्वचन क्वापि वीराः सुभटाःशी लन्ति । उत्प्रेक्ष्यते-सानाः सशरीरा वीरनामानः पञ्चमा रसाः इव । पुनः अनूना सुदृढतनुत्रनिशितशस्त्रादिद्विचत्वारिंशदुपगरणकलिता चत्वारि गजवाजिरथपदाति लक्षणानि अङ्गान्यवयवा यस्यास्तादृशी चमूः शीलति । कमिव । सेनान्यमिव । अत्र एव इवार्थे । यथा चक्रवत्याँदिसेनापतिं चनुरङ्गिणी सेना सेवते । अथवा । सेनान्यं स्वामिकार्तिकं चतुःस्कत्धा सुरसेना सेवते । देवैः स्कन्दमेव सेनानीत्वेऽभिषिच्य तारको निहतः । एतद्विस्तरः परसमये ॥ કલેકાર્થ જેમ ઇંદ્રિાણીના પ્રાણનાથ ઇંદ્રને ચાર લેકપાલ (પૂર્વ, પશ્ચિમ, ઉત્તર, અને દક્ષિણ એ ચારે દિશાનાં સોમ, યમ, વરૂણ અને કુબેર) સેવે છે તેમ રાજ સભામાં ચાર દિશાના રાજાઓ અકબરની સેવા કરે છે. વળી રાજસભામાં સાક્ષાત્ દેહધારી વીરરસ સમાન વરસુભટ અકબરની સેવા કરે છે, તેમજ જેમ ચકવતના સેનાપતિને ચતુરંગિણી સેના સેવે તેમ ૪૨ ઉપકરણોથી યુક્ત ચતુરંગી સેના (ગજદળ, અશ્વદળ, રથદળ અને પાયદળ) અકબરની સેવા કરે છે. ૯૧ आकाशवत्कविवुधश्रियमादधाना नीरेशितार इव जिष्णुरमाभिरामाः। श्रीदा इव प्रदधतोऽत्र वदान्यभावं सभ्या विभान्ति धिषणा इव वागधिशाः ॥१२॥ अत्राकब्बरसभायां सभायां साधवः सभ्याः सभासदः राजसभोपवेष्टारः विभान्ति शोभन्ते । किंभूताः । कवितया काव्यकर्तृत्वेन । यदुक्त' स्वगर्वापहारिणा केनचिद्विदुषा'वयमपि कवयः कवयः कवयः कवयश्च सिद्धसेनाद्याः । यद्यपि डलयोरैक्यं तत्कि कलभीयते करभः ॥ इति । तथा बुधतया पाण्डित्येन श्रियं शोभामा सामस्त्येन सर्वकलावेतृत्वेन दधानाः सभाया विभूषां कुर्वाणा वा । किंवत् । आकाशवत् । यथा आकाशः कवीनां शुकानां बुधानां रोहिणीनन्दनानां च श्रियं लक्ष्मीमा सामस्त्येन बिभ्राणाः कुर्वाणा वा सन्ति । सूर्याणां द्वादशत्वेन बाहुल्याद्ग्रहाणामपि बाहुल्यम् । सूर्याणां ग्रहपतित्वात् ।
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy