________________
हीरसौभाग्यम्
[सर्ग ९ श्लो० ५-८
શ્લેકાથ હે સૂરિવર ! જેમ વજી સ્વામીએ સહસ્ત્રપત્ર કમલે માંગીને સમુદ્રપુત્રી લક્ષ્મીને કૃતાર્થ કરી હતી તેમ કેઈ કાર્યની મને આજ્ઞા કરીને કૃતાર્થ કરે પાપા
निगद्येति जिनाधीशशासनामरसुन्दरी ।
भेजे जोषं मुखे शारदीनेव शिखिमण्डली ॥६॥ जिनानां सामान्यकेवलिनामधीशस्य तीर्थकरत्वात्स्वामिनः श्रीमहावीरस्य शासन स्यामरसुन्दरी देवाङ्गना इत्यमुना प्रकारेण निगद्य कथयित्वा मुखे वदने जोषं मौन भेजे सेवते स्म । 'जोषमासनविशिष्य बभाषे' इति नैषधे । तथा 'तृप्णी तूष्णीकां जोषं च मौने' इति हैम्याम् । मौन कृत्वा स्थितवतीत्यर्थः । केव । शिखिमण्डलीव । यथा शारदीना शरत्कालस'बन्धिनी । घनात्ययसमये इत्यर्थः । शिखिमण्डली मयूरमाला मुखे जोष भजते न ब्रवीतीत्यर्थः । यदुन माघकाव्ये-समय एव करोति बलाबल प्रणिगदन्त इतीव मनीषिणः। शरदि हंसरवापरुषीकृतस्वरमयूरमयूरमणीयताम् ॥' इति ॥
साथ આ પ્રમાણે કહીને, શરદકાળમાં જેમ મયૂરમંડળી મૌન ધારણ કરે તેમ શાસન वा भीन पा२९५ ४यु ॥ ६ ॥
यदास्यकौमुदीकान्तवाक्पीयूषाभिलाषिणी ।
चलचञ्चुचलच्चक्षुरिव सा रभसादभूत् ॥७॥ सा देवी रभसादौत्सुक्यात् चलचञ्चोश्चकोरस्य चलच्चक्षुश्चञ्चललोचना वनिता चकोरी तहदभूत्संजाता । किंभूता । यस्य सूरीन्द्रस्य आस्यमाननं तदेव कौमुदीकान्तश्चन्द्रस्तस्य वाग वाणी एव वचोरुप वा पीयूष सुधारसस्तदभिलषति वाञ्छतीत्येव शीला । 'कणे हत्य चकोरीणां गणः पीत्वा सुधारसम् । अजायत मदेनेव गुञ्जापुजारुणेक्षणाः ॥' इति ज्योत्स्नापाने सत्यपि चकोरीणां सुधापान कीर्तिकौमुद्याम् ॥ इति गुर्वाभिप्रायजिज्ञासया देवीप्रश्नः ॥
કલેકાર્થ: સૂરીન્દ્રના મુખચન્દ્રમાંથી વચનામૃતનું પાન કરવાની અભિલાષાવાળી શાસનદેવી ઉત્સુકતાથી ચપલનયના ચકેરીને જેવી બની જાળા
वाचं वाचंयमश्रेणीरोहिणीरमणस्ततः । तत्पुरो ग्राहयामास सुधाया औरसीमिव ॥८॥