________________
सर्ग १० श्लो ० ८५-८६]
हीरसौभाग्यम्
१२७
કરે, એ ન્યાયે જાણે ચંદ્ર આવીને સેવા કરતે ન હોય ! એમ છત્ર શોભતું तु.)॥८॥
श्रृङ्गारिताः क्वचन मत्तमत्तगजेन्द्रा _ विन्ध्याञ्जनावनिभृतोरिव तुङ्गशृङ्गाः । वाजिवजाः क्वचन सन्ति परैरसह्य
तेजोजितैः कजकरैरुपदीकृताः किम् ॥८६॥
यत्र सभायां क्वचन कुत्रचित्प्रदेशे श्रृङ्गारिताः सिन्दूरतैलादिभिः तथा चमरकाञ्चनरचितपट्टबन्धादिभिविभूषिताः मत्ता मदोधुराः सप्तसु स्थानकेषु द्वौ कपोलौ द्वे पार्श्व नौ शिरःपिण्डौ मेद्रं च । अथ च कुत्राप्येवं दृश्यते यथा-द्वौ गण्डौ लोचने द्वे च गुदं मेदं करः पुनः । मदच्युतिर्भवेत्सप्तस्विति स्थानेषु हस्तिनाम् ॥ इति । पश्चात्तद्रक्षिता रावा तच्छानविदो विदन्तीति । एतेषु स्थानकेष्वविरलमदप्रवाहझरन्तोऽत्युत्कटा मतङ्गजेन्द्राः गजराजाः सन्ति सजलजलधरगलगर्जितं कुर्वन्तो विद्यन्ते । उत्प्रेक्ष्यते-विन्ध्यो जलगजबालकाद्रिः, विन्ध्याचलः अञ्जननामा च अवनिभृत्, तयोस्तुङ्गा गगनाङ्गणलिङ्गिनः श्रृङ्गाः शिखराणीव । श्रृङ्गः पुनपुंसकलिङ्गे । क्वचन वाजिव्रजाः श्रृङ्गारिताः । अत्राप्येतद्विशेषणम् । सुवर्णखलीनपर्याणादिभिः शोभिताः तुरङ्गमगणाः सन्ति वितिष्ठन्ते । उत्प्रेक्ष्यते-परैः सर्ववैरिवारैरसह्यानि सोढुमशक्यानि यानि तेजांसि प्रबलप्रतापाः तैः कृत्वा जितैः परिभूतैः कजकरैः पद्मपाणिभिः । 'मित्त्रो ध्वान्तारातिरजाशुहस्तः' इति हैम्याम् । भास्करैः । सूर्याणां बाहुल्याब्दहुत्वम् । द्वादशात्मा च हेलिः' इति हैम्याम् । उपदीकृता ढौकिता इव ॥
શ્લોકાઈ
રાજસભામાં વિધ્યાચલ અને અંજન પર્વતનાં ગગનસ્પશી શિખરા જેવા સિંદુર તેલ અને સુવર્ણનાં પટ્ટબંધ આદિથી સુશોભિત મદન્મત્ત ગંધહસ્તિઓ હતા. તેમ જ કયાંક (રાજસભામાં) દુશમને માટે અસહ્ય પ્રતાપવાળા બાદશાહનાં પ્રતાપથી પરાભવ પિમેલા સૂર્યવડે જાણે પિતાનાં અશ્વોનું ભેટનું કરાયું ન હોય ! તેવાં અશ્વોના સમૂહ હતાં. ૮૬
शौर्याज्जिगीषुमवगत्य निजं मृगेन्द्र
रेजेऽनुनेतुमिव यं प्रतितैमगैः स्वैः ।