________________
सर्ग १० श्लो० ८३-८४]
हीरसौभाग्यम्
१२५
एषैव पूस्त्रिजगतीजयिनी निवस्तु
मौचित्यमावहति भो हरितां महेन्द्राःकुत्रापि वेणुरिति वैणविकैः प्रणुनो
वस्तुं किमाह्वयति तानिह सान्द्रनादैः ॥८३॥
कुत्रापि साहिसभायाः क्वचन प्रदेशे वैणविकैः वेणुवादयन्तीति वंशवादकैर्गन्धर्वजनैः प्रणुन्नः प्रेरितः । वादित इत्यर्थः । वेणुवंशः 'बासली' इति प्रसिद्धः । सान्द्रः स्नेहलैः श्रवणहृदयप्रेमोत्पादकैर्बहलैर्नीरन्धेर्वा नादैनिजनिनादैः कृत्वा । उत्प्रेक्ष्यते- इति हेतास्तान हरितां महेन्द्रान् इह फतेपुरनाम्नि साहिनगरे वस्तु वासं विधातुं किमाह्वयति आकारयतीव । अन्योऽपि कश्चिजनः केनापि प्रेरितः कमप्यनिर्दिष्टनामानमाकारयति । इति किम् । भो इति संवोधने । अहो हरितां महेन्द्राः दशानामपि दिशामधीशाः, त्रिजगतीजयिनी त्रिभुवननिखिलनगरी निर्जयनशीला एषैव फतेपुरलक्षणापूः पुरी निवस्तु वस्तु निवासं विधातुमौचित्यमार्हन्तीयोग्यतामावहति दधातीति ॥
શ્લેકાર્થ રાજસભાના કેઈ પણ પ્રદેશમાં નેહલ ‘(કર્ણ અને મનને આનંદદાયી) સ્વરોમાં વંશવાદકે વાંસળી બજાવતા હતા, તે વાંસળી જાણે છે દશે દિશાના દિગપાલે ! ત્રણે જગતની લક્ષમીને પરાભવ કરવાવાળી ફતેપુરી નગરીમાં વાસ કરો ગ્ય છે માટે ત્યાં આવી નિવાસ કરવાની પ્રેરણા કરતી હતી. પ૮૩
कुत्रापि केलिविहगा मगधा इवोर्वी
भानोर्मुदा जयजयेदमुदीरयन्ति । शास्त्राम्बुधेरिव सुधालहरीदहन्तस्थास्नोः कथाश्च कथकाः कथयांबभूवुः ॥८४।
कुत्रापि सभायाः कस्मिन्नपि भूमिभागे केलिविहगा राजशुकसारिकाप्रमुखपतत्त्रिणः मुदा इष्टफलावलीप्राप्तिप्रमुदितमनस्त्वेन उर्वीभानोरतिशायिप्रतापयत्वेन वसुधाविवस्वतः अकब्बरस्य जयजयेदं हे साहे , त्वं चिरं विगलितावधिः जय जय सर्वोत्कर्षेण वर्तस्व सर्वोत्कर्षेण वर्तस्थ इदमेतदुदीरयन्ति । तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ता पटवस्तमस्तुवन्' इति नैषधे । कथयन्ति । क इव । मगधा इव । यथा मागधा मङ्गलजा यशब्दादिकथकाः जयजयशब्दं राज्ञो वदन्ति च पुनः कथकाः पुराणोदितव्याख्यानका