________________
सर्ग १० श्लो.०८०-८१ ]
हीरसौभाग्यम्
यस्यां वर्णनागोचरीकर्तुमारब्धायामतिशायिरूपत्वान्महीमदनो भूमीमनोभूरकब्बरपातिसाहिस्तस्य संसदि सभायाम् । 'निषधवसुधामानां कस्य' इति नैषधे । नर्तकेषु नृत्यकारकेषु मनसां तथा नयनानामर्थाच्चतुरचित्तलोचनानां वृत्तेापारस्य हरमपहारकम् अनन्यवृत्तिविधायक नृत्य ताण्डवं सृजत्सु कुर्वत्सु सत्सु । षड्ज-ऋषभ-गान्धार-मध्यम -पञ्चम-धैवत-निषघनामभिः सप्तभिः स्वरैरासे । सप्तस्वराणां तानमानमूर्छनाभिर्बभूव इत्यर्थः । उत्प्रेक्ष्यते-तस्मादकब्बरसाहेरुदिता प्रकटीभूता या अप्रमाणा प्रमाणातीता असाधारणा प्रसत्तिः प्रसन्नता यस्यास्तादृश्याः । स्वामि-अमात्य-तुहृत्-कोश-राष्ट्र. दुर्ग-सैन्यलक्षणानि सप्तसंख्याकान्यङ्गानि अवयवा यस्यास्तद्विधायाः लक्ष्म्या राज्यश्रियाः समासमध्ये लक्ष्मिशद्वो ह्रस्वोऽपि दृश्यते । यथा-'चरणलक्ष्मिकरणग्रहणोत्सवे' इति ऋषभनम्रस्तवे । तथा-'लक्ष्मीर्लक्ष्मिहरेः स्त्रियाम्' इति शबप्रभेदेऽपि । मुदितध्वनितैरिव प्रमोदमेदुरमनस्त्वेन शब्दितैरिव ॥
શ્લેકાર્થ કામદેવ સમાન બાદશાહની સભામાં નૃત્યકારે મન અને નયનનું હરણ કરે તેવા અદ્ભૂત નૃત્યને કરતે છતે જાણે સાતસ્વરોમાંથી (ષજ, ઋષભ, ગાંધાર, મધ્યમ, પંચમ દૈવત અને નિષધ) પ્રગટ થયેલી અસાધારણ કટિની પ્રસન્નતા જેમાં છે તેવી सhineal (स्वाभि, अमात्य, भित्र, शि, राष्ट्र, हु भने शैन्य )नी प्रसन्नताना સૂર ન હોય ! (નૃત્યકારોના નૃત્યથી અકબરશાહને પ્રમાણતીત પ્રસન્નતા થતી ती.) ॥८॥
कुत्रापि मौरजिकमण्डलवाद्यमान- माद्यन्मृदङ्गनिनदाननुकतुकामः। जैनं पदं परिचरन्विगतावलम्बः
श्रेयोऽनुतिष्ठति धनः किमु कामवर्षी ॥८१॥
कुत्रापि साहिसभायाः कस्मिंश्चित्प्रदेशे मुरजान्वादयन्तीति मौरजिका मृदङ्गवादकास्तेषां मण्डलेन संदोहेन वाद्यमानानां विविधतालः पाणिभिस्ताड्यमानानां तथा माद्यतां भोजनदानलोभेन मदवतां गम्भीरनिजाभ्यां मृदङ्गानां मर्दलानां निनदान शब्दाननुकत सदृशीभवितु कामोऽभिलाषो यस्य तादृक् धनो जलधरः श्रेयः सुकृतं पुण्यमनुतिष्ठति करोतीव । किंभूतः । विगतो निर्यातोऽवलम्व आश्रयः स्वजनादिवर्गः स्वामिनगराधुपष्टम्भो यस्य । एतावता एकाकी गगने स्थितत्वात् च निराधारः । पुनः किंमृतः । काममतिशयेन जनमनोभिलाष वा वर्षति प्रचुरपयोवृष्टिं कुरुते प्रददातीत्ये शीलः कामवर्षी । पुनः किं