________________
सर्ग १० श्लो० ७७-७८]
हीरसौभाग्यम्
१२१
स्मारावरोधनधियं विदुषां ददाना
यस्मिन्स्मिताम्बुजशः श्रियमाश्रयन्ते । गोष्ठी विधित्सव इवात्र चतुनिकाय
देवाङ्गनाः कुतुकिता मिलिता मिथोऽमूः ॥७७॥
यस्मिद फतेपुरे स्मिताम्बुजशः स्मेरारविन्दनयनाः श्रियं शोभामाश्रयन्ते बिभ्रते । किं कुर्वाणाः । ददानाः प्रयच्छन्त्यः ' काम् । स्मरस्य मदनस्येदं स्मारं ताहगवरोधनमन्तः पुरं तस्य धियं बुद्धिम् । केषाम् । विदुषां पण्डितानाम् । ‘स्मरावरोधभ्रममावहन्ती' इति नैषधे । उत्प्रेक्ष्यते-अमूः प्रत्यक्षा: चतुर्णा भवनपतिव्यन्तरज्योतिष्कविमानवासिलक्षणानां निकायानां जातिविशेषाणां देवानामङ्गनाः स्त्रियः मिथः परस्परम् अत्र नगरे अमूः जगज्जननयनविषया मिलिता इव । किंभूताः । गोष्ठी विधित्सवः अन्योन्यं गोष्ठी स्वस्ववार्ता कतु काङ्कन्त्यः । अत एव किंभूताः । कुतुकिताः कुतुकं स्वपरस्परस्वान्तप्रवृत्तिप्रविधाने कौतूहलं हृद्रयोल्लासो जातमासामिति कुतुकिताः ॥ इति नरनार्यः ॥
શ્લેકાર્થ પંડિત પુરુષોને પણ કામદેવનાં અંત:પુરને ભ્રમ કરાવે એવી આ નગરની વિકસિત કમલનયના–સ્ત્રીઓ શેભાને ધારણ કરે છે તે જાણે ચાર નિકાયની (ભવનપતિ, વ્યંતર, જતિષ્ક અને વૈમાનિક) દેવાંગનાઓ કૌતુકથી પરસ્પર ગણી ४२१। भाटे सानामा भणी न य ! ॥७॥
स्वर्गे सुरेश इव शेष इवाहिगेहे
चन्द्रो दिवीव निधिनाथ इवालकायाम् । प्रीणन्प्रजा दशदिशां विजयं विधाय
तस्यां पुरि क्षितिपतिः स्म करोति राज्यम् ॥७८॥
दशानामपि दिशां हरितामासमुद्रक्षितेविजय स्वायत्तीकरणं विधाय कृत्वा प्रजाः प्रकृतीः समस्तलोकान् प्रीणन् संतुष्टान् कुर्वन् । स क्षितिपतिः जगत्प्रसिद्धिमानकब्बरपातिसाहिः तस्यां फतेपुरनाम्न्यां पुरि नगर्या राज्यं करोति स्म । समग्रनगरजनपदगजचक्रैश्वयं भुनक्ति स्म । क इव । सुरेश इव । यथा स्वर्ग देवलोके देवेन्द्रो राज्य पालयति । पुनः क इव । शेष इव ' यथा अहिगेहे नागलोके शेषनागाधिपो धरणेन्द्रो वा
ही, सौ. १६