________________
सर्ग १० श्लो ०७४-७५]
हीरसौभाग्यम्
चित्ते विचिन्त्य भयमभ्रपथेऽभियाति___ स्वर्भाणुतो निजपरिच्छदमप्यशेषम् । आदाय यद्विविधरत्रनिकेतकायाः
सातं क्षिताविव वसन्ति सितांशुसूर्याः ॥७४॥
यन्नगर्या विविधानामनेकजातीयानां रत्नानां कर्केतनादीनां मणीनां ये निकेता नैकोचितचञ्चुररचनासंदर्भितभवनास्त एव कायाः शरीराणि येषां ते। सितांशवः श्वेतकान्तयश्चन्द्राः सूर्या आदित्याः । उत्प्रेक्ष्यते-क्षितौ पृथिव्यां सातं सुख यथा स्यात्तथा वसन्ति निर्विघ्न स्थितिं कुर्वन्ति । किं कृत्वा । अभ्रपथे मेघमार्गे गगने अभियाति: प्रतिपन्थी यः स्वर्भाणुर्विधंतुदः तस्मात्सकाशाच्चित्ते स्वमानसे भयं निजग्रसनसाध्वस विचिन्त्य विमृश्य अपि पुनः अशेषं समस्तमात्मपरिच्छदं ग्रहनक्षत्रतारकादिपरी. वारमादायं साधं गृहीत्वा ॥
બ્લેકાર્થ
ફતેપુરમાં અનેક જાતિનાં રત્નનાં ગૃહ શેલતા હતાં, “આકાશમાં શત્રુભૂત રાહુને ભય રહેલો છે માટે પૃથ્વી પર નિર્વિક્તપણે સુખપૂર્વક રહી શકાય” આ વિચાર કરીને જાણે સૂર્ય, ચન્દ્રગ્રહ, નક્ષત્ર આદિ પિતાના પરિવારને સાથે લઈને આ નગરીમાં આવીને વસ્યા ન હોય ! અર્થાત્ રત્નોના બનેલાં એ ગૃહો જાણે સૂર્ય यद्र- -नक्षत्र मानि डाय ! ते शमिता तi. ॥७४॥
उन्नालनीरजमिव श्रियमापदेका__ स्तम्भं निकेतनमकब्बरभूमिभानोः। वंश्या रवेरिव परेऽपि गृहा वहन्ते
शोभां मणीद्युतिविभासितदिग्विभागाः ॥७५॥
अकब्बरनामा भूमेविश्वभराया भानुर्भास्वांस्तस्य एतावता राज्ञः एक एवाधस्ताद्भागे स्तम्भ आधारस्थूणा यस्य तादृशं निकेतनमेकस्तम्भभवनं श्रियं शोभामापल्लभते स्म । किमिव । उन्नाल नीरजमिव । यथा उत् ऊर्ध्वमुदुच्चैः सलिलाबहिर्वति जनलोचनगोचर वा नाल मृणाल यस्य तादृक् नीरज कमलं श्रियं शोभामाप्नोति । अपि पुनरकठबरसाहेः परेऽन्येऽपि गृहाः सप्तभूमिकादयः प्रासादाः शोभां विभूषां वहन्ते । भासन्ते